SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ नीतियोगः ] एवं विज्ञाय निशङ्कं जैना मां पर्युपासते । तेषां शान्तिं च तुष्टिञ्च, पुष्टिं बुद्धिं ददाम्यहम् ॥ गुरुभक्ताः सदा जैना, भवन्ति मदुपासकाः । जैनाचार्याः कलौ साक्षान्मदीयप्रतिमूर्त्तयः ॥ आपवादिकधर्माणां कर्मभिस्ते कलौ बलात् । जैनधर्मस्य संरक्षां करिष्यन्ति स्वशक्तितः ॥ जैनसंख्याप्रवृद्धीनां कर्मणां परिवर्तनम् । करिष्यन्ति बहुपायजैनधर्मप्रवर्त्तकाः ॥ जैनागमप्रचारेण मद्धर्मस्य प्रचारणाम् । करिष्यन्ति महाशूराः सूरिवाचकसाधवः ॥ अतस्तेषां सदा भक्तिः, कर्त्तव्या धर्मरागिभिः । कलौ युक्तिप्रयुक्तीनां कर्मभिर्धर्मरक्षणम् ॥ शुभक्षेत्राणि पोष्याणि, देशकालानुसारतः । गौणमुख्यतया सम्यग्गृहिजैनैः स्वशक्तितः ॥ बाह्यज्ञानेषु शुष्कत्वं, संत्याज्यमात्मबोधतः । क्रियासु यज्जडत्वं तत्याज्यं कर्मरहस्यतः ॥ सज्ज्ञानकर्मतो मोक्षो, लोकानां जायते खलु । स्वाधिकारं विना धर्मो, नास्ति स्वात्मोन्नतिप्रदः ॥ अज्ञानेन दयायां तु, निर्बलत्वं मनीषिणाम् । निवार्य ज्ञानतस्तनु, सज्जनैर्धर्म्यशक्तये ॥ स्थानानि धर्मशास्त्रादेः, स्थापितव्यानि भक्तितः । गुरुकुलेषु सद्दानं, दातव्यं धर्महेतवे ॥ महासंघस्य सत्सेवा, कर्त्तव्या पूर्णभक्तितः । गुरुद्रोहादयो दोषास्त्याज्यास्तीर्थविनाशकाः ॥ Jain Education International " " , १ For Private & Personal Use Only ८५. १६७* १६८ १६९ १७० १७१ १७२. १७३ १७४ १७५. १७६ १७७ १७८ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy