________________
જે
[ पञ्चमाध्याये
१५९
गुर्वादीनां सदा भक्तिर्धार्यां दानादिना शुभा । - विश्वजीवेषु कर्त्तव्या, कल्याणवृत्तिरुत्तमा । यावद्गृहाश्रमे वासस्तावद्देशादिरक्षणम् । कर्त्तव्यं स्वाऽधिकारेण, ना सेव्या क्लीयताऽधमा । १५६ विद्याक्षात्रादिकार्याणामुपेक्षा धर्मनाशिनी । प्राप्तं कर्म विधातव्यं, धृत्वा निष्कामतामतः ॥ आत्मज्ञानं विना नैव, निष्कामो मानवो भवेत् । आत्मज्ञानदशायां तु, धर्म्यकामिजना वराः ॥ धर्म्यकामविशिष्टास्तु, गृहस्था धर्मकारकाः । काम्यानि कर्माणि कुर्वन्तो यान्ति स्वःपदम् ॥ कलौ जीवन्ति मज्जैना, विद्यासत्ताधनादिभिः । अतस्तेषां परिप्राप्तिः कर्त्तव्या धर्महेतवे ॥ जैनसाम्राज्यवृद्ध्यर्थे, रक्षार्थश्च स्वजीवनम् । विद्यते सर्वजैनानां विद्यासत्साधनादिकम् ॥ जैनैः प्रीत्या प्रकर्त्तव्या परस्परसहायता । - जिनत्वं सर्वजैनेषु द्रष्टव्यं भक्तिभावतः ॥ संघोपरि महारागः, कर्त्तव्यो जैनधर्मिभिः । कलावापत्तिधर्माणां कर्मभिरुन्नतिः शुभा ॥ जैन धर्म परिभ्रष्टा, जना यान्ति न सद्गतिम् । मर्मच्युतलोकानां, दौर्बल्यञ्च पदे पदे ॥ अहं साक्षात्परब्रह्म, परमात्मा विदांपतिः । मदायत्तं जगत्सर्व, देवो नान्योऽस्ति मत्परः ॥ अतो मर्मसंघाद्ये, भ्रष्टास्ते मद्विरोधिन: । इहामुत्र च तेषां तु नैव चित्तसमाधयः ॥
"
,
"
Jain Education International
?
For Private & Personal Use Only
१५५
१५७
१५८
१६०
१६१
१६२
१६३
१६४
१६५
१६६
www.jainelibrary.org