________________
नीतियोगः ] दौर्बल्यं न कदा धार्य, जैनैः सर्वार्थसाधकैः । बाह्यसत्ताविहीनानां, विनिपातोऽस्ति कोटिशः ॥ १४३ सर्वजातीयविद्यानां, धारका ब्रह्मचारिणः । भवेयुस्तादृशाः साध्या, उपायाः सर्वशक्तिभिः ॥ १४४ ब्रह्मचर्याश्रमाः कार्या, विद्यापीठसमन्विताः। तव्यवस्था प्रकर्तव्या, देशकालाऽनुसारतः ॥ वीर वीरेति जल्पन्तः, क्षात्रकर्मादिवर्जिताः । एतादशा गृहस्थास्तु, जैनधर्मस्य घातकाः ॥ १४६ यावदगृहाश्रमस्तावधेिया वर्णकता। स्वाश्रयेण गृही जीवन्मत्पदं याति कर्मकृत् ॥ १४७ जयशीलाः सदा जैना, योग्यकर्मव्यवस्थया । उन्नतेः साधका जैनाः, पश्चात्त्वं यान्ति नैव ते ॥ १४८ वैराग्यपरिपक्वानां, गृहिणां त्यागयोग्यता। अन्यथा तु गृहस्थानां, गृहकर्माऽधिकारता॥ ग्रहाश्रमो महाश्रेष्ठो, गृहस्थानां स्वशक्तितः । ज्ञानवैराग्यपाकाय, धर्ममूलो गृहाश्रमः ॥ ब्रह्मचर्य समासाद्य, नरो नारी च कर्मतः। गृही भूत्वा भवेत्यागी, क्रमोऽयं गृहधर्मिणाम् ॥ १५१ सुगैहाश्रमः श्रेष्ठो, धर्मिसन्तानवर्द्धकः। पूर्वसंस्कारिलोकानां, क्रमो नाऽयं विवक्षितः ॥ १५२ मातृभूमिः सदा रक्ष्या, गहिजैनैः स्वशक्तितः। देशरक्षा विधातव्या, विविधोपायशक्तितः॥ १५३ गुरुसंघस्य रक्षार्थ, कुरुध्वं स्वाऽर्पणं जनाः । कुटुम्बज्ञातिलोकानां, रक्षा शक्त्या विधीयताम् ॥ १५४
१५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org