________________
[पञ्चमाध्याये क्षेत्रकालाऽनुसारेणाऽऽजीविकाकर्मकारकाः। मचित्ताः सर्ववर्णस्था, जैनाः स्वाशिवगामिनः ॥ १३१ राष्ट्रादिसर्वधर्माणां, रक्षका जैनपोषकाः । साधुसंघस्य भक्त्यर्थ, योग्या जैना गृहस्थिताः ॥ १३२ मदुक्तसर्वविद्यानां, धारका ब्राह्मणा मता। परब्रह्मस्वरूपं मां, जानन्तो यान्ति मद्गतिम् ॥
१३३ संघधर्मस्य रक्षार्थ, क्षत्रिया युद्धकारकाः । मां स्मरन्तो रणे मृत्वा, स्वर्ग गच्छन्ति मत्पराः ॥ १३४ कृषिवाणिज्यकर्त्तारो, वैश्या मद्भक्तिधारकाः । आत्मार्थ च परार्थ ते, जीवन्तो यान्ति मत्पदम् ॥ १३५ शूद्रा जीवन्ति मद्भक्ताः, सर्ववर्णस्य सेवया । सेवाधर्मेण ते यान्ति, मत्पदं भक्तिकर्मभिः ॥ -१३६ कर्मसूञ्चत्वनीचत्धं, कल्पितं नैव तत्त्वतः। सर्ववर्णेष्ववर्णषु, मां द्रष्टारो महाजनाः॥ उच्चनीचत्वमन्तारो, मद्भक्ता नैव मोहिनः । सर्ववर्णीयलोकेषु, जैनाः पश्यन्ति मां स्थितम् ।। १३८ सर्वोपायैः सदा कार्या, जीविकादिप्रवृत्तयः । धर्मार्थ जीवनं येषां, निर्दोषास्ते प्रवृत्तिषु ॥ १३९ कलावाजीविकावृत्तिकर्मणां परिवर्तनम् । संभविष्यति वर्णानां, जैनधर्माऽनुयायिनाम् ॥ १४० तयपि जैनवर्णानां, कर्मभिर्धर्मजीवनम् । भविष्यति न दोषाय, जैनाः स्युः सर्वकर्मकाः॥ १४१ धर्मार्थकाममोक्षाणां, साधको धर्म उच्यते। सर्वजातीयशक्तीनां, धारको धम उच्यते ॥ १४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org