________________
८१
__१२२
नीतियोगः"] प्रामाण्यं प्राणवार्य, देशकालाद्यपेक्षया । चारित्रमुन्नतेमूलं, धर्म्यजीवनकारणम् ॥ उक्ताऽनुक्तादिस दैतिव्याः सर्वनीतयः । वेदागमोक्तनीतीनां, भेदा द्रव्याद्यपेक्षया ॥ गृहित्यागादिसतेंदैनीतयः स्वाऽधिकारतः। पालितव्या विवेकेन, मयोक्ताः सर्वशक्तिदाः ॥ चतुर्वर्णाः स्वभावेन, कलावेको भविष्यति । चतुर्वर्णास्तथाऽवर्णा, जैनधर्माऽधिकारिणः ॥ सर्ववर्णेषु मद्धर्मः, सर्वपापप्रणाशकः । मुख्यता गौणता बोध्या, वर्णानां कलिधर्मतः॥ १२३ क्षत्रादिसर्ववर्णानां, ज्ञातव्यं परिवर्तनम् । गुणकर्मविभागेन, वर्णधर्मो न शाश्वतः ॥ १२४ स्वस्ववर्णस्थिता लोका, धर्म यान्ति न संशयः । कुर्वन्तो वर्णकर्माणि, लोका मां यान्ति भक्तितः ॥ १२५ नैव मोहः कदा कार्यो, वर्णाऽऽचारादिकर्मसु । संधाय हृदि मां लोका, भवन्ति मुक्तिगामिनः ॥ १२६ आसक्तिमन्तरा लोके, सर्ववर्णाः स्वकर्मणि । स्थिता याताश्च यास्यन्ति, यान्ति ते मत्पदं शिवम् ॥ १२७ गृहस्थैर्वर्णसंस्काराः, कर्तव्या विधिवत्सदा । वर्णानां धर्मसंस्काराः, शुभाः पावित्र्यकारकाः ॥ १२८ स्पोऽस्पर्यव्यवहारः, काल्पनिको न वस्तुतः । वर्णधर्मस्य संस्कारकारका गृहिपण्डिताः॥ १२९ सर्ववर्णीयजैनानां, नेतारो जैनसूरयः। धर्मस्य सर्वसंघस्य, चोन्नतिकारकाः सदा॥ १३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org