________________
[ पञ्चमाध्याये राज्यादिधर्मरक्षार्थ, सर्वजातीयनीतयः ।। देशकालाऽनुसारेण, सेवनीया यथाक्रमम् । १०७ अनीतिशक्तिनाशाय, संसेव्या नीतिशक्तयः। अनीतीनां क्षयो याभिर्नीतयस्ताः स्वभावतः॥ १०८ अल्पदोषमहालाभपूर्वकाः सर्वनीतयः । अनीतिरपि सन्नीतिर्भवेद्धर्मादिरक्षणात् ॥ आपद्धर्मप्रसङ्गे तु, जीवनोपायकर्मसु । आपन्नीत्या प्रवृत्तानां, दोषाः सन्ति न धर्मिणाम् ॥ ११० उत्सर्गकाऽपवादाभ्यां, धर्माऽधर्मविवेकतः । नीतयोऽनीतयः सर्वा, अनित्याश्च कलौ युगे ॥ १११ अनीतीनाश्च नीतीनां, नित्यानित्यादिभावना । अल्पदोषमहालाभपूर्विका धर्म्यकर्मसु ॥ . ११२ सर्वजातीयनीतीनां, धर्मत्वं शुद्धबुद्धितः। मद्भक्तानां शुभा बुद्धिर्नीत्यादिधर्यकर्मलु ॥ . ११३ आत्मनः सर्वधर्माणामभेदो मत्स्वरूपतः । भेदोऽस्ति व्यवहारेण, निर्भेदो निश्चयेन तु ॥ ११४ विज्ञायैवं स्वरूपं मे, सर्वथा मयि रागिणः । राष्ट्रादिसर्वनीतीनां, कर्मभिर्जीविनः सदा ॥ मद्भक्त्यैवोद्भवन्त्येताः, सर्वजातीयनीतयः । सर्वजातिप्रगत्यर्थ, मन्जनाः समुपासते ॥ देशकालादिभेदेन, नीतीनां परिवर्तनम् । 'उत्सर्गकाऽपवादाभ्यां, ज्ञात्वा कर्म समाचरेत् ॥ ११७ यन्नीत्या स्वात्मशक्तीनां, संघादीनाञ्च हीनता। अनीतिः सा विवेकेन, ज्ञातव्या देशकालतः ॥ ११८
११५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org