SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ [ पञ्चमाध्याये धर्मिदेशेषु, महामारी प्रवर्तते । बकी महाभीति-रीतयश्च भवन्त्यपि ॥ ८३ ..पापा अनार्याश्च, मयि नास्तिकबुद्धयः । पत्र देशे जना दुष्टास्तत्र दुःखौघराशयः ॥ मदीयजैनधर्मस्य, पालका यत्र नो जनाः । तत्र देश भयोत्पादा, दुर्भिक्षायाः पुनः पुनः ।। चतुर्विधमहासंघो, यत्राऽन्यायेन पीडयते । तद्देशे दुःखदावाग्निर्जायते व संशयः ॥ सर्वदेशस्थजैनानां, नाशार्थमन्यधर्मिणः। प्रवर्त्तन्ते तदा तत्र, भयोत्पादा विपत्तयः ॥ जैनसंघविनाशार्थ, प्रवृत्तानां विनाशने । अल्पदोषास्तु लाभानां, कोटयो धर्मरक्षणे ॥ .. जैनानां रक्षणे धर्म-रक्षणं निश्चित मतम् । अतोऽन्यधर्मिभिः साई, धर्मयुद्धं कृतं शुभम् ॥ स्वातन्त्र्यादिकरक्षार्थ, जैनसंघस्य युक्तितः । औना युद्धयन्ति मद्भक्ता, धर्म्ययुद्धादिकारकाः ॥ आपत्काले तु जैनानामापद्धर्मस्य सेवनम् । निर्दोषं तद्भवत्येव, जीवनोपायकर्मसु ॥ सर्वजातीयसज्जैनैरापत्काले विशेषतः । कृत्वैक्यं सर्वशक्तीनां, विधेयं परिवर्तनम् ॥ परस्परसहायेन, वर्तितव्यं स्वकर्मभिः ।। तादृकालेषु मज्जैना, निर्दोषा धर्मरक्षकाः ॥ केचिन्नित्या अनिलाश्च, नीतीनां परिवर्त्तनैः । देशकालाऽनुसारेण, वर्तितव्यं विवेकतः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy