________________
.
.
नीतियोगः ] अनृतादिप्रकर्तृणामुन्नतिन स्थिरा कदा । पापकर्मफलं दुःखं, जायते सर्वदेहिनाम् ॥ यत्राऽनृतादिदोषाः स्युस्तत्र दुःखस्य राशयः। प्रादुर्भवन्ति वेगेन, कृतपापप्रभावतः ॥ असत्यं नैव वक्तव्यं, परार्थस्वार्थकर्मसु । . यत्राऽसत्यं न तत्राऽहं, ज्ञातव्यं सर्वमानवैः ।। यादृक् कर्म फलं ताहरू, सर्वत्र सर्वदेहिनाम् । सर्वजीवोपकाराय, वर्तितव्यं स्वशक्तितः ॥ अन्यायिदुष्टलोकानां, शिक्षा देया स्वशक्तितः। धर्मिणां शिक्षणात्पुण्यं, स्वर्गादिश्च प्रजायते ॥ साधूनां यत्र सत्कारो, दानमानादिभिः शुभः । तत्र देशे समाजे च, श्रीधृतिकीर्तिकान्तयः॥ यत्र देशे सदाचाराः, सद्विचाराश्च देहिनाम् । तत्र वृष्टयादिभिः शान्ति-योगक्षेमसुखादयः ॥ यत्र देशे समाजे च, ज्ञातौ निर्व्यसना जनाः । भक्ताः शराश्च दातारो, जायन्ते तत्र सम्पदः ॥ त्यागिनां ज्ञानिनां यत्र, योगिनाश्च विशेषतः। पूजा सत्कारता तत्र, धर्मो भवति निश्चलः ॥ अन्नदानं क्षुधा नां, यत्र देशे गृहे गृहे । तत्र लक्ष्यादिसंवासो, मत्प्रभावेण जायते ॥ परोपकारयोग्यानि, सर्वकर्माणि मजनैः। हितार्थ सर्वजीवानां, कर्तव्यानि विशेषतः ॥ मत्तद्भेदो न कर्त्तव्यो, विश्वोपकारकर्मसु । आत्मतुल्यं जगन्मत्वा, वर्तितव्यं स्वशक्तितः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org