________________
७६
यत्र देशे समाजे च, सुरापानं प्रवर्त्तते । तत्र सात्विकशक्तीनां विनिपातः सहस्रशः ॥ सुरापानान्महान्तोऽपि, नीचत्वं यान्ति तद्भवे । धर्ममार्गात्परिभ्रष्टा, जायन्ते नीचसङ्गतेः ॥ पशुपक्ष्यादिकं घ्नन्ति, मांसार्थ निर्दया जनाः । चारित्रं नैव ते यान्ति, हिंसापापादिसंयुताः ॥ यत्र हिंसा न तत्राऽहं ज्ञातव्यं भव्यमानवैः । हिंसाबुद्धिर्न यत्रास्ति, तत्राऽहं परमेश्वरः ॥ गृहस्थाः स्वाऽधिकारेणाऽपेक्षया स्व-स्वकर्मणाम् । कुर्वन्ति यतनां सम्यक्, स्वारम्भादिषु शक्तितः ॥ अहिंसैव परो धर्मः, सर्वधर्मशिरोमणिः । सर्वधर्माः प्रजायन्ते, सत्यात्सर्वत्र देहिनाम् ॥ दुर्बलानामनाथानां बालानां दुःखिदेहिनाम् । स्त्रीणां रक्षा प्रवर्त्तव्या साधूनाञ्च विशेषतः ॥ पीडनं नैव कर्त्तव्यमन्यायादन्यदेहिनाम् । स्वशक्तीनामहङ्काराद्दण्डितव्या न देहिनः ॥ अन्यायो न कदा कार्यः, स्वार्थहेतोर्मनीषिभिः । अन्यायेन मनुष्याणां विनिपातोऽस्ति निश्चितः ॥ यत्र देशे समाजे च, राष्ट्रे सङ्के न धर्मता । अन्यायादिमहादोषास्तत्र कोटिविपत्तयः ॥ अन्यायी यत्र राजाऽस्ति लोकानां पूर्णदुःखदः । यत्र दुष्टाः प्रजाः सर्वास्तत्र दुष्कालभीतयः ॥ यत्र लोका महापापा, धर्मकर्मविनाशकाः । साधूनां घातका दुष्टास्तत्र रोगादयः स्थिरः ॥
Jain Education International
"
[ पञ्चमाध्याये
For Private & Personal Use Only
५९
६१
६२
६३
६४
६५
६६
६७
६८
६९
७०
www.jainelibrary.org