________________
नीतियोगः ] अन्यधर्मोपरि द्वेषः, कर्त्तव्यो न प्रमादतः। विधर्मिणोऽपि मां यान्ति, सर्वत्र साम्ययोगतः ॥ सर्वजातीयजीवानां, श्रेयःसाधककर्मसु । यतितव्यं यथाशक्ति, अभेदात्मोपचारतः ॥ चतुर्विधस्य संघस्य, भक्तिः कार्या दिने दिने । निर्बलानां बलं देयं, कर्तव्यो न मदः कदा । सर्वजीवोपकारार्थ, वित्ताद्याः सर्वशक्तयः। सन्त्येवं वस्तुतो ज्ञात्वा, प्रवर्तध्वं सुभावतः॥ परोपकारकर्माणि, कुर्वन्तो मन्जना भुवि । स्वर्ग सिद्धिश्च संयान्ति, पुण्यधर्माऽनुगामिनः॥ अन्नवस्त्रादिदानेन, मद्भक्ता ऊर्ध्वगामिनः । अन्यायं नैव कुर्वन्ति, राज्यादिधर्म्यकर्मसु ॥ न्याय्यधर्मप्रचारेण, विश्वशान्तिप्रवर्तकाः। सर्वदोषान्परित्यज्य, मत्स्वरूपं व्रजन्ति ते ।। प्रातः सायश्च मद्भक्ताः, षडावश्यककर्मसु । प्रवर्त्तन्ते प्रयत्नेन, पूर्णप्रेमसमन्विताः ॥ सम्यग्नीतिं सदा यान्ति, मर्माश्रितमानवाः । अधर्मिभ्यो विशेषेण, बलं प्राप्य प्रवर्तकाः॥ यत्राऽनीतिः स्वभावेन, तत्र देशे विपत्तयः। अन्यायघोरकर्माणो, देशा दुःखोदधिं त्रिताः ।। कन्याविक्रयकर्त्तारो, वरविक्रयिणस्तथा । धर्मोन्नतेः प्रघातत्वात्पश्यन्ति मां न मोहिनः॥ यत्र देशे समाजे च तयोश्च विक्रयोऽशुभः । तत्र दौर्भाग्यदीनत्वं, जायते लैव संशयः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org