SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ७४ " दोषाणां सद्गुणानाञ्च विवेकः सर्वनीतितः । कर्त्तव्यः स्वात्मशुद्ध वर्थ, सर्वजातीयधर्मिभिः ॥ दुर्व्यसनादिसन्त्यागः कर्त्तव्यः सर्वमानवैः । स्वाच्छन्द्यं नैव कर्त्तव्यं, गुर्वादिसेवनादिषु ॥ स्वधमषु सदा रागः, साहाय्यं दुःखिदेहिनाम् । वैराग्यं सोह्यभावेषु, कर्त्तव्यं साधुसेवनम् ॥ मनोवाक्काययोगानां शौचं सेव्यं विवेकतः । द्रव्यशौचं विधातव्यं, भावशौचस्य कारणम् ॥ देवादिपूजनं कार्य, कायादिशौचपूर्वकम् । गृहस्थयोग्यशौचानां, सेवनं गृहिणां शुभम् ॥ सर्वशौचानि लीयन्ते, स्वात्मशौचे स्वभावतः । आत्मशुद्धिः सदा कार्या, सर्वशौचमिणिः ॥ वित्तादीनां सुपात्रेषु, व्ययः कार्यो विवेकतः । धृतिः कीर्तिश्च सत्कान्तिर्बुद्धिर्धार्या प्रयत्नतः ॥ स्वाधिकारो विवेकेन, ज्ञातव्यः सर्वकर्मसु । स्वाऽधिकारवशाद्भिनं, कर्माऽनर्थप्रदायकम् ॥ अतिथीनां सदा सेवा, कर्त्तव्या गृहिभिः शुभा । स्वागतं सभ्यलोकानां कर्त्तव्यं पूर्णरागतः ॥ स्वोपकारिमनुष्याणां प्रत्युपग्रहकर्मभिः । कर्त्तव्या पूर्णरागेण, सेवा सद्धर्भवर्द्धिका ॥ सर्वविश्वोपकारार्थ, स्वात्मत्यागादिकं शुभम् । कर्त्तव्यं भव्यलोकेषु, 'सत्यनीतिप्रचारकम् ॥ सन्मानं गुरुमुख्यानां कर्त्तव्यं भक्तिभावतः । विद्यादानादिसद्रागः, कर्त्तव्यः स्वात्मभोगतः ॥ 5 Jain Education International 5 " [ पञ्चमाध्याये For Private & Personal Use Only ३६ ३७ ३८ ३९ ४० ४१ ४२ ४३ ४४ ४५ ४६ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy