________________
नीतियोगः] महापापः स बोद्धव्यो, दत्तविश्वासघातकः। अद्रष्टव्यमुखोऽधर्मा, संघद्रोहादिकारकः ॥ मन्निन्दादिप्रकर्त्तारो, गुरुनिन्दादिदोषिणः। पापकर्मविपाकेन, श्वभ्रं यान्ति नराऽधमाः ॥ . जैनधर्मस्य निन्दादिकारका धर्मघातकाः। साधूनां दुःखदातारो, नरा निरयगामिनः ॥ कर्त्तव्या न कदा निन्दा, परस्परविधर्मिणाम् । अङ्गीकार्य सदा सत्यं, सत्यव्याख्याविचारतः॥ दयासत्यादिधर्माणां, सेवनं स्वात्मशक्तितः । कर्तव्यं सज्जनः सम्यग्देशकालादिबोधतः ॥ अनृतव्यभिचारादिदोषास्त्याज्या विवेकतः । स्वात्मवत्सर्वजीवेषु, धार्या प्रीतिः शुभावहा ॥ मातापित्रोः सदा सेवा, कर्त्तव्या पूर्णभक्तितः । कुटुम्बादिस्ववर्गाणां, पालनञ्च सहायता ॥ मातृभाषा सदा सेव्या, देशप्रीतिः शुभावहा । गुर्वादीनां सदा सेवा, कर्त्तव्या प्रेमपूर्वकम् ॥ आजीविकादिवृत्तीनां, धारणं स्वाऽधिकारतः। सर्वसामाजिकी सेवा, कर्त्तव्या स्वात्मशक्तितः॥ ३१ पतिपत्न्यादिधर्माणां, रागतः पालनं शुभम् । पुत्रादिसन्ततिः पाल्या, शिक्षणीया च युक्तितः ॥ ३२ धर्मरक्षा सदा कार्या, देशराज्यादिरक्षणम् । स्वातन्त्र्यादिस्वशक्तीनां, रक्षणश्च प्रवर्द्धनम् ॥ सर्वजीवस्य रक्षादिव्यवस्थासु स्वशक्तितः । वर्तितव्यं विवेकेन, जयः सर्वत्र धर्मतः ॥
३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org