________________
[ पञ्चमाध्याये सर्वविश्वव्यवस्थार्थ, हितार्थश्च विवेकदाः। नीतिधर्माः समाख्याता, धर्भसाम्राज्यवर्द्धकाः॥ सा नीतिरेव संसाध्या, सर्वशक्तिप्रवद्धिका । देशकालाऽनुसारेण, गौणमुख्यविवेकदा ॥ सा नीतिः सर्वदा ग्राह्या, दुष्टानां शक्तिवारिका ।। साधूनाश्च गृहस्थानां, प्रबलोन्नतिकारिका ॥ सर्वजातीयसाम्राज्यप्राप्तथै युक्तितः कला । कर्तव्या नीतिरूपा सा, दुष्टेभ्योऽधिकशक्तिदा ॥ १४ प्रामाण्यं व्यवहारेषु, यत्र तत्र सुखावहम् । प्रामाण्ये विजयः पूर्णोऽप्रामाण्ये च पराजयः ॥ विश्वास्या नैव लोकाः, स्युरप्रामाण्यप्रवृत्तितः। सत्प्रामाण्यं महाधर्मः, सर्वकल्याणकारकः ॥ अप्रामाणिकलोकानामुन्नतिनैव जायते । देशे राज्ये महासंघे, प्रामाण्यं पूर्णशान्तिदम् ॥ कलौ प्रामाण्यमालम्ब्य, जना यान्ति शुभं पदम् । सर्वदा सर्वथा ज्ञेयं, प्रामाण्यं सर्वतो महत् ॥ प्रतिज्ञापालका लोकाः, प्रामाण्यं यान्ति धैर्यतः । प्रतिज्ञाभ्रष्टलोकानां, भ्रष्टता नीचता तथा ॥ प्रतिज्ञापालकाः शराः, शोभन्ते स्वात्मशक्तितः। पालनं न प्रतिज्ञायास्तत्र क्लैब्यश्च दीनता ॥ विश्वासो नैव कर्त्तव्यः, प्रतिज्ञाभ्रष्टदेहिनाम् । यथा वाचा तथाऽऽचारः, सतां मद्भक्तियोगतः॥ २१ प्राणान्तेऽपि न मुश्चन्ति, स्वप्रतिज्ञां महाजनाः । सर्वस्वाऽर्पणतां कृत्वा, प्रतिज्ञां पालयन्ति ते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org