________________
पञ्चमाध्याये नीतियोगः सर्वागमान्समालम्ब्य, जैनधर्मः प्रवर्तते । ऋषभायैः कृता जैनधर्मसत्यप्रचारणा ॥ जीवाऽजीवादितत्त्वालामरिष्टनेमिना कृता। व्याख्या कृष्णादिभक्तानामग्रे मुक्तिप्रदर्शिका ॥ ताक्ष्य पार्श्वजिनेन्द्रण, जैनधर्मः प्रचारितः । नेमिपार्वाऽईतोः काले, जाता बेधु मिता ॥ अरिष्टनेमिनाथेन, सर्वदेशाः प्रबोधिताः । पाण्डककौर बीयञ्च, युद्धं तत्समयेऽजनि । तार्यपार्श्वस्य बोधेन, सत्यधर्माः प्रवर्तिताः । सर्वभारतलोकेषु, जाता धर्मोन्नतिः शुभा ॥ जैनधर्मस्य नीत्यंशा, मूसादिना प्रवर्तिताः । भूमध्योदधिसंभागे, यत्र जैनोन्नतिः पुरा ॥ धर्मा आर्या अनार्याश्च, देशभेदेन विश्रुताः। विद्यमानाश्च सर्वेऽपि, मयि सापेक्षतः स्थिताः ॥ नीतिधर्मा मया प्रोक्ता, नित्यानित्याः स्वरूपतः । जैनाः श्रयन्ति तान्युक्त्या, देशकालविवेकतः ॥ सामदण्डादिभेदेन, राज्यतन्त्रादिनीतयः । चेटकणिकाद्यानां, दर्शिता धर्मरक्षिकाः ॥ इन्द्रभूत्यादिसूरीणां, मदन्तेवासिनां शुभाः। जैनधर्मप्रवृद्धयर्थ, दर्शिता धम्धनीतयः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org