________________
३६
धर्मयोगः ] जैनधर्माहिः कोऽपि, नैव धर्मो विलोक्यते । जैनधर्मे न यो धर्मः, स धर्मो भुवि नो कदा ॥ जैनधर्मे मया प्रोक्ते, सर्वे धर्माः प्रतिष्ठिताः। भिन्नधर्मस्य नाम्नाऽपि, मद्धर्म यान्ति मानवाः ॥ भिन्नसत्यांशधर्माणां, कर्मणां फलदोऽस्म्यहम् । अतः सर्वजनैः सेव्यो, मद्धर्मोऽसंख्यभेदतः ॥ मत्स्मृतिध्यानयोगेन, मुक्तिं संयान्ति पापिनः । सर्वधर्मान् परित्यज्य, भजध्वं मां सुभावतः ॥ कर्तत्वादिप्रवादस्तु, मद्र्यं कथ्यते बुधैः । तथापि पूर्णमद्रूपं, ज्ञायते नैव योगिभिः ॥ असंख्यदृष्टिभिः सद्भिः, मत्स्वरूपं विवर्ण्यते । असंख्यदृष्टिभिष्टं, तद्रूपमंशतो मम ॥ असंख्यदृष्टितो धर्मा, वर्तन्ते ये धरातले । ते मद्धर्मोदधेरंशा, मद्धर्माऽभिन्नताश्रिताः ॥ अतो मर्म आदेयः, सर्वधर्ममहोदधिः । सर्वधर्माम्युराशि मां, भजध्वं भावतो जनाः ॥ परब्रह्मस्वरूपं ये, महावीरं जगत्प्रभुम् । मां सेवन्ते जनास्तैस्तु, सर्वधर्मा निषेविताः ॥ मयि सर्वाः समायान्ति, द्वैताद्वैतादिदृष्टयः । सर्वदृष्टिस्वरूपं मां, भजध्वं पूर्णभक्तितः ॥ साकारञ्च निराकारं, मत्स्वरूपं व्यवस्थितम् । धर्मादी वरित्राणां, सागरोऽहं स्वभावतः ॥ सर्वाऽवस्थाचरित्रेषु, सर्वधर्माः प्रतिष्ठिताः। मचरित्रैम्पादेश्या, धर्ममार्गाः सनातनाः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org