SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ६८ सत्यमेव परो धर्मो, यत्र तत्र सदा जयः । पराजयोऽस्त्यधर्मेण, सर्वत्र सर्वदेहिनाम् ॥ आत्मनां प्रकृतीनाञ्च, संयोगोऽनादिकालतः । 'धर्मेण तद्वियोगोऽस्ति, मोक्ष एव स उच्यते ॥ धर्मात्कामार्थसंप्राप्तिः, धर्मात् सिद्धिः प्रजायते । धर्मादिष्टस्य संप्राप्तिः, धर्म एव सतां धनम् ॥ धर्मो रक्षति सर्वत्र, नाऽन्यो धर्मसमो महान् । अर्हदादिपदं धर्मात् प्राप्नुवन्ति जना भुवि ॥ आत्मरूपाः सदा धर्मास्तदाविर्भाव हेतवः । धर्मा निमित्तयोगेन, ज्ञातव्या मज्जनैर्हृदि ॥ " Jain Education International [ चतुर्थाध्याये सर्वविश्वस्थजीवानां, दयाद्यैर्व्यापकः शुभः । जैनधर्मो मया प्रोक्तः, सर्वत्र शान्तिकारकः ॥ व्यष्टिसमष्टिरूपेण, बाह्याभ्यन्तरशक्तयः । व्यक्ता भवन्ति येनाऽसौ, धर्म एव मयोच्यते ॥ राष्ट्रसमाजशक्तीनां प्राकटयं जायते यतः । सुखादौ धार्यते येन, लोको धर्मः स उच्यते ॥ दुर्गतौ पततो लोकान्विनिवृत्य च मद्गतौ । यो धारयति धर्मः स, मोहदोषनिवारकः ॥ मैत्रीप्रमोदमाध्यस्थ्यकारुण्य भावनाश्रितः । धर्मः कर्मविनाशाय समर्थोऽस्ति जगत्त्रये ॥ बाह्यः प्रवृत्तिरूपेण, निवृत्तिरूप आन्तरः । द्रव्यभावतया सेव्यः, स्वर्गसिद्धिप्रदायकः ॥ बाह्यान्तरोन्नतेः कर्त्ता, रोगापत्तिविनाशकः । जैनधर्मो मया प्रोक्तः, सुखाय सर्वदेहिनाम् ॥ For Private & Personal Use Only २३ २४ २६ २६ २७ २८ ३० ३१ ३२ ३३ ३४ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy