________________
धर्मयोगः ] पालिते जैनधर्मेऽस्मिन् सर्वे धर्माः प्रपालिताः । सागरे सरितो मान्ति, सरित्सु नैव सागरः ॥ मद्धर्मेऽभिन्नतां यान्ति, सर्व धर्मा अपेक्षया । सर्थ देवा मयि व्याप्ताः, स्वांशभेदेश भेदवान् ॥ मप्यतः पूजिते सर्वे, धर्माः संसाधिताः खल्लु। महमें साधिते सर्वे, धर्माः संसाधिताः सदा ॥ मदभिन्ना सर्वधर्माः, मद्धर्मोदधिबिन्दवः। सत्याचारविचाराणां, मदर्भः पूर्णसागरः॥ भूता भवन्ति ये धर्मा, भविष्यन्ति कलौ युगे। महर्मे तत्समावेशो, नयैः सर्वैरपेक्षया ।। सर्वेऽपि भिन्ननामानो, धर्माः सत्यांशतः सदा । अभिन्ना जैनधर्ने ते, आपगा इव सागरे । जैनधर्मः सदा सत्यः, सर्वधर्माशसागरः। स्तुवन्ति सर्ववेदा यं, जैनधर्म सनातनम् ॥ यत आत्मोन्नतिः पूर्णा, तथा सङ्घोन्नतिर्भवेत् । धर्मः स मन्जनैः साध्यः, सर्वशक्तिप्रदोऽस्ति यः ॥ १८ सदगुणा धर्मरूपास्ते, मनोवाकायसंभवाः। अधर्मा दुगुणा ज्ञेया, धर्मसाम्राज्यनाशकाः ॥ चतुर्विधस्य सङ्घस्य, विनिपातो भवेद्यतः । अधर्भः सज ने यः, सङ्घशक्तिविनाशकः ॥ त्यागेन स्वाऽधिकारस्थ, मनुष्याणामधर्मता । जायते सर्वलोकेऽस्मिन्ततोऽशान्तिः प्रवर्तते ॥ यत्र धर्मो भवेत्सत्यो, जयस्तत्रास्ति निश्चलः । यत्राऽधर्मो भवेत्र, दु:खराशिपरम्परा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org