________________
चतुर्थाध्याये धर्मयोगः कर्मयोगफलं श्रुत्वा, प्रसन्ना गौतमादयः। धर्मयोगं मनुष्याणां, पप्रच्छुः प्रभुमादात् ॥ वीरः प्राह महासत्वाः ! शृणुध्वं सुखशेवधिम् । गृहस्थेतरवर्गाणां, धर्मयोगं ब्रवीम्यहम् ॥ धर्मार्थकाममोक्षाणां, प्रापको धर्म उच्यते । धारणात्सर्वशक्तीनां, तात्त्विको धर्म उच्यते ॥ दुःखादिषु पतज्जीवान् , यो धारयति शक्तिभिः । द्रव्यतो भावतश्चैव, जैनधर्मः स उच्यते ॥ सर्वजातीयदुःखानां, जेता मद्धर्म उच्यते । धर्मभेदा असंख्याता, गृहिल्लागादिभेदतः ॥ ज्ञानावरणमुख्यानां, कर्मणां नाशकारकः । आत्मशुद्धिकरश्चैव, जैनधर्मः सनातनः ॥ अनादितः प्रवृत्तो यो, मद्धर्मो विश्वपावकः । सूर्यचन्द्रादिसर्वेषां, स्थितिः श्रीजैनधर्मतः ॥ परब्रह्मस्वरूपोऽस्ति, जैनधर्मः स्वभावतः । जैनधर्मप्रभावेण, विश्वशान्तिव्यवस्थितिः ॥ पालकः सर्वजीवानां, सवर्णस्य शासकः । अनादितः प्रवृत्तो यो, जैनधर्मः सनातनः ॥ विश्वप्रवर्तिता धर्मा, जैनधर्ममहोदधेः । तरङ्गा वेदितव्यास्ते, सर्वसत्यविवेकतः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org