________________
४८४ ]
[ गाथा-- २५५
अथ किट्टिकरणाद्धायां निर्वर्तितकिट्टीनां प्रमाणं व्याहरति- 'हवन्ति' इत्यादि, तत्र 'किge: ' योगकिय: ' श्रेण्यसङ्घयभागः ' सूचिश्रेणेरसंख्येयभाग प्रमाणा 'भवन्ति' जायन्ते । नन्वपूर्वस्पर्धकान्यपि सूचिश्रेणेरसंख्येयभागमात्राणि जायन्ते स्म तेभ्यः किं किट्टयो हीनाः, उता ऽधिकाः ? न तावदधिकाः, किं तर्हि ? इत्याह- 'अपुव्वफड्डाण' इत्यादि, अपूर्वस्पर्धकानां 'पुनः ' पुनश्शब्दो वाक्यभेदे 'असङ्ख्यांश:' असंख्येयभागमिताः किट्टयो भवन्ति, ना-ऽधिकाः । उक्तं च कषायप्राभृतचूण - “किट्टीओ सेढोए असंखेज्जदिभागो । अपुव्वफद्दयाणं प असंखेज्जदिभागो । ।" इति । तथा किट्टिकरणाद्धायां निर्वर्तिताः सर्वाः किट्टयः सूचिश्रेणिप्रथमवर्गमूलस्याऽसंख्येयभाग प्रमिता एव भवन्तीति फलितार्थः, कथमेतदवसीयते ? इति चेत्, उच्यते- अपूर्वस्पर्धकानां सूचिश्रेणिप्रथमवर्गमूल सत्काऽसंख्येयभाग प्रमाणत्वं प्राक्प्रतिपादितम् निर्वतिकिट्टीनां चा-पूर्वस्पर्धक सत्का - संख्येयभागमात्रत्वेन सुतरां सूचिश्रेणिप्रथमवर्गमूला-ऽसंख्येयभागप्रमितत्वं सिध्यति ।
,
aaree
जीवप्रदेशानाश्रित्य प्रथमकिट्टितः प्रभृति चरमकिट्टि यावद् विशेषहीनक्रमेण कियस्तिन्ति, वीर्या विभागानाश्रित्य पुनरसङ्ख्यातगुणक्रमेण विद्यन्ते ॥२५३-२५४॥ अथ किरणाद्धा समाप्तायां यद्भवति तद्व्याजिहीर्षु राह
किट्टीकरणे सम्मत्ते सेकाले विणासह सजोगी ।
सव्वाणि उभयफड्डाई जोगो तस्स किट्टिगओ ॥ २५५॥
किरणे समाप्ते - नन्तरकाले विनाशयति सयोगी ।
सर्वाण्युभयस्पर्धकानि योगस्तस्य किट्टिगतः || २५५ || इति पदसंस्कारः ।
'किट्टी ० ' इत्यादि, 'किट्टिकरणे समाप्ते' अन्तर्मुहूर्तप्रमाणायां किट्टिकरणाद्धायां समाप्तायाम् 'अनन्तरकाले ' अनन्तरसमये 'सयोगी' निरुध्यमानसूक्ष्मकाययोगो महात्मा सयोगिकेवली भगवान् 'सर्वाण्युभयस्पर्धकान' समस्तानि पूर्वाऽपूर्वस्पर्धकानि विनाशयति, सर्वाणि पूर्वापूर्वस्पर्धकान किट्टितया परिणमयतीत्यर्थः ।
'जोगो' इत्यादि, योगस्तु समाप्तकिट्टिकरणस्य 'तस्य' सूक्ष्मकाययोगं निरुन्धानस्य महात्मनः ‘किट्टिगतः' ततः प्रभृत्यन्तर्मुहूर्तं यावत् किट्टिगतो भवति । अभिहितञ्च कषायप्राभृतचूर्णी - "किट्टीकरणडे पिट्ठिदे से काले पुव्वफद्दयाणि अपुव्वफद्दयाणि च णासेदि । अंतोमुत्तं किट्टीगदजोगो होदि ।” इति ।
Jain Education International
लब्धकिट्टिगतयोगो महात्मा सयोगिगुणस्थानकविचरमसमयं यावत् सर्वकट्टीनामसंख्येयभागमिताः किट्टीर्विनाशयति, यतश्चरमसमये बह्वसंख्येयभागमिता विनाशयति । उक्तं चकषाप्राभृतचूर्णी - "किट्टीणं चरिमसमये असंखेजे भागे णासेदि ।” इति ।
For Private & Personal Use Only
www.jainelibrary.org