________________
४७६ ]
खवगसेढी
[गाथा-२४४ बलाभिधानात् सक्ष्मवाग्योगो निरुध्यमानो निरुद्धः, ततो निरुद्धवाग्योगोऽन्तमुहूर्तमास्ते, न सूक्ष्मयोगनिरोधं प्रति वर्त्तते इत्यर्थः। तत उपर्यनन्तरसमय एव सूक्ष्ममनोयोगं निरोद्धमारब्धः, ततोऽन्तमुहूर्ते पूर्णे सूक्ष्मकाययोगोपष्टम्भात् सूक्ष्ममनोयोगो निरुध्यमानो निरुहः। ततोऽन्तमुहर्त स्थित्वा उपर्यनन्तरसमय एव सूक्ष्मकाययोगं निरोधुमारब्धः।” इति ।
सूक्ष्मकाययोगं निरन्धानः प्रथमसमये किट्टीनामसंख्येयभागान् नाशयति, एकं चा-ऽ संख्ययभागं मुञ्चति । द्वितीयसमये प्राङमुक्तस्यैकभागस्या-ऽसंख्येयान् भागान् विनाशयति, एकं च परित्यजति, एवंक्रमेण किट्टीस्तावद् नाशयति, यावत् सयोगिगुणस्थानकचरमसमयः, यदुक्तं पञ्चसङ्ग्रहवृत्ती-"सूक्ष्मकाययोगं निरुन्धानः प्रथमसमये किट्टीनामसंख्येयान् भागान् नाशयति, एकस्तिष्ठति । द्वितीयसमये तस्यैवैकस्य भागस्योद्धरितस्य संबन्धिनोऽसंख्येयान् भागान् नाशयति, एक उद्धरति । एवं समये समये किट्टीस्तावन्नाशयति, यावत्सयोग्यवस्थाचरमसमयः।” इति।
सूक्ष्मकाययोगं च निरुन्धानो वक्ष्यमाणस्वरूपं सूक्ष्मक्रियाऽप्रतिपाति शुक्लध्यानं ध्यायति, यदभिहितम् आवश्यकचूर्णी-"ततोऽन्तमुहर्ते पूर्णे सूक्ष्मकाययोगोपष्टम्भात् सूक्ष्मकाययोगो निरुध्यमानो निरुद्धः । अस्यामवस्थायां सूक्ष्मक्रियाप्रतिपातिध्यानं ध्यायति ।” इति । तृतीयशुक्लध्यानसामर्थ्याच्च बदनोदरादिविवरपूणेन संकुचितदेहत्रिभागवर्तिप्रदेशो भवति । गुणस्थानकक्रमारोहे तु योगनिरोध इत्थं प्रतिपादितः
"बादरे काययोगेऽस्मिन् स्थितिं कृत्वा स्वभावतः। सक्षमीकरोति वाकचित्तयोगयुग्मं स बादरम् ॥१॥ त्यक्त्वा स्थूलं वपुर्योगं सक्ष्मवाकचित्तयोः स्थितिम् । कृत्वा नयति सक्ष्मत्वं, काययोगं तु बादरम् ॥२॥ सुसूक्ष्मकाययोगेऽथ स्थितिं कृत्वा पुनः क्षणम् । निग्रहं कुरुते सद्यः सक्ष्मवाकचित्तयोगयोः ॥३॥ ततः सूक्ष्मे वपुर्योगे स्थितिं कृत्वा क्षणं हि सः ।
सूक्ष्मक्रियं निजात्मानं चिद्रूपं विन्दति स्वयम् ॥४॥” इति । तत्वं तु केवलिनो बहुश्रुता वा विदन्ति ।
नन्वयुक्तमिदं योगनिरोधव्याख्यानम्, सतो हि निरोधः संभवति । न चा-ऽत्र बादरकाययोगे सूक्ष्मकाययोगे वा वर्तमानस्य महात्मनो मनोयोगो वचनयोगो वा संभवति, एककालावच्छेदेनैकस्यैव योगस्य सिद्धान्ते प्रतिपादितत्वात्, अतो-ऽसतो मनोयोगस्य वाग्योगस्य वा निरोधो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org