________________
३९४ ]
खवगसेढी
[ गाथा-२०६-२०७ कनिषेके निक्षिपति, अन्यथा स्थितिघाते पूर्णे दृश्यमानदलमेकगोपुच्छाकारेण नवाधिकद्विशततमगाथायां यद्वक्ष्यति, तन्नोपपद्येत । इत्थमन्तरस्थितिचरमनिषेकतो द्वितीयस्थितेः प्रथमनिषके संख्यातगुणहीनं दलं प्रक्षिपति । पश्यन्तु पाठका यन्त्रकम्-२८ ।।
अथ गणितविभागः । गणितरीत्येत्थं दर्शयितव्यम्-अन्तरस्थितिनिषेकैः स्थितिखण्डनिषेकराशिर्विभज्यते, तदा संख्यातरूपाणि लभ्यन्ते, अन्तरस्थितिनिषेकतः स्थितिखण्डस्य संख्येयगुणेन बृहत्तरत्वात् । तानि संख्यातरूपाणि पृथक्पृथक् स्थापयितव्यानि । अथ संख्यातरूपैः स्थितिखण्डसर्वनिषेकान् खण्डयित्वा पृथक्पथक्स्थापितेषु संख्यातरूपेष्वेकैकं खण्डं दातव्यम् । तत्रैकरूपे लम्वनिषेकाः सर्वान्तरस्थितिनिषेकप्रमाणा भवन्ति । अथैकरूपे प्राप्तनिषेकान् गृहीत्वाऽन्तरस्थितिनिषेकराशिना विभज्यैकैकनिषेकमन्तस्थितेरेकैकनिषेके प्रक्षिपेत् । इत्थश्च जाते प्रक्षेपेऽन्तरस्थितिचरमनिषेके द्वितीयस्थितिप्रथमनिषेकतो दृश्यमानदलं किञ्चिदधिकं जायते, पुरातनदलस्य तत्र सचात् । ततो द्वितीयरूपे प्राप्तनिषेकान् संख्यातराशिना विभज्यैकखण्डमन्तरस्थितिनिषेकेषु यथाविभागं पुननिक्षिपति, शेषाणि बहूनि खण्डानि गृहीत्वा यथाविभागं द्वितीयस्थितिनिषेकेषु निक्षिपति, संख्यातराशिश्वाऽत्रान्तरस्थितिनिषेकराशिभाजितगुणश्रेणिवर्जशेषाऽधात्यमानस्थितिसत्कर्मनिषेकप्रमाणो बोद्धव्यः। एवं तृतीयादिरूपेषु स्थापितनिषेकगतदलमन्तरस्थितिनिषेकेषु द्वितीयस्थितिनिषेकेषु च यथागमं निक्षिपति । एवंक्रमेण निक्षिपतो जीवस्याऽन्तरस्थितिचरमनिषेके निक्षिप्तसंकलदलतो द्वितीयस्थितिप्रथमनिषेके निक्षिप्तसकलदलं संख्यातगुणहीनं भवति ।
अथासत्कल्पनया दयते--कल्प्यन्तां गुणश्रेणिनिक्षेपनिषकाश्चत्वारः (४), अन्तरस्थितिनिका अष्टौ (८), प्रथमस्थितिखण्डं पुनर्वात्रिंशभिषेकमात्रम् (३२), शेषद्वितीयस्थितिस्त्वष्टचत्वारिंशदधिकद्विशतनिषेकप्रमाणा (२४८),प्रथमस्थितिघाताद्धायाश्च द्विचरमसमयं यावदन्तरस्थितिप्रथमनिषेके निक्षिप्तदलानि षट् सहस्राणि (६०००)। तत उत्तरोत्तरनिषेके दलिकदशकरूपेण (१०) चयेन हीनानि हीनतराणि तावनिक्षिप्तानि, यावदन्तरस्थितिचरमनिषेकः । तेनाऽन्तरस्थितिचरमनिषके त्रिंशदधिकनवपञ्चाशच्छतमात्रं (५९३०) दलं प्रक्षिप्तम् । अथ द्वितीयस्थितिप्रथमनिषेकयेकलक्षमात्रं (१०००००) दलं कल्प्यम् । तत उत्तरोत्तरनिषेके विंशतिदलिकात्मकचयेन हीनं हीनतरं दलं तावत् कल्प्यम्, यावत् प्रथमस्थितिखण्डचरमनिषकः । तेन प्रथमस्थितिखण्डचरमनिषेके दलमशीत्यधिकपञ्चपञ्चाशच्छतन्यूनलक्षमात्रम् । इह यद्यपि द्वितीयस्थितिप्रथमनिषेकतः प्रभृति प्रथमस्थितिखण्डचरमनिषेकं यावद् दलिक विशेषहीनं भवति, तथापि विशेषहीनत्वं न विवक्षणीयम्, गणितप्रक्रियासौकर्यलाभाद् अकिश्चित्करत्वाच्च । अतो द्वितीयस्थतिप्रथमनिषेकतः प्रथमस्थितिखण्डचरमनिषेकं यावदेकैकस्मिन् निषेकयेकलक्षमात्र दलं बोद्धव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org