________________
३८८ ]
खवगसेढी
[ गाथा--२०४ 'लोहस्स' इत्यादि, लोभद्वितीयसंग्रहकिट्टिवेदनाद्धाचरमसमये 'लोमस्य' संज्वलनलोभस्य 'मुहूर्तान्तः' मुहूर्तस्य अन्तर-मध्ये, अन्तमुहूर्तमात्र इत्यर्थः, 'बन्धः' स्थितिबन्धो 'भवति' जायते, मोहनीयस्याऽन्तमुहूर्तमात्रः स्थितिवन्धो भवतीत्यर्थः । अयं च मोहनीयस्य सर्वजघन्यस्थितिबन्धः । एवं मोहनीयस्यानुभागबन्धोऽपि सर्वजघन्यो भवति ।
'घाईण' इत्यादि, 'घातिनां' मोहनीयस्योक्तत्वाज्ज्ञानावरण-दर्शनावरणा-ऽन्नरायरूपाणां कर्मणां स्थितिवन्धो 'दिवसान्तः' दिवसस्य-अहोरात्रस्य अन्तर=मध्ये भवति, लोभप्रथमसंग्रहकिट्टिवेदनाद्धाचरमसमये यो घातित्रयस्य स्थितिबन्धो दिवसपृथक्त्वमात्र आसीत् , स क्रमेण हीयमानः सन् सम्प्रत्यन्तरहोरात्रप्रमाणो जायत इत्यर्थः । 'अघाईणं' इत्यादि, तदानीं चाऽघातिनां कर्मणां नामगोत्रवेदनीयलक्षणानां स्थितिबन्धो 'वर्षान्तः' वर्षस्याऽन्तर्जायते । प्रतिपादितं च कषायप्राभृतचूर्णी--"तम्हि चेव लोभसंजलणस्स ठिदिबंधो अंतोमुहत्तं तिण्हं घादिकम्माणं ठिदिबंधो अहोरत्तस्स अंतो । णामागोदवेदणीयाणं बादरसांपराइयस्स जो चरिमो ठिदिबंधो, सो संखेज्जेहिं वस्ससहस्सेहिं हाइड्ण वस्सस्स अंतो जादो।" इति ।
___ अथ प्रतिजिज्ञासुराह-'अह' इत्यादि, 'अर्थ' स्थितिबन्धप्ररूपणानन्तरम् , आनन्तर्यार्थकत्वाद् अथशब्दस्य, 'भणामः' प्रतिपादयामः, किम् ? इत्याह-'ठिइसंतं' ति 'स्थितिसच' सप्तानामपि कर्मणां स्थितिसत्कर्म ॥२०३॥ अथ प्रतिज्ञां निवर्वोढुकामः सप्तानामपि स्थितिसत्त्वं व्याहरति
लोहस्स मुहत्तंतो संखसहस्सवरिसा य घाईणं । होज्जेइ अघाईण उण असंखेज्जवरिसा चरिमे ॥२०४॥
लोभस्य मुहूर्तान्तः संख्यसहस्रवर्षाश्च घातिनाम् ।।
भवत्यघातिनां पुनरसंख्येयवर्षाश्चरमे ।।२०।। इति पदसंस्कारः । 'लोहस्स' इत्यादि, तत्र'चरिमें' त्ति 'चरमे' लोभद्वितीयसंग्रहकिट्टिवेदनाद्धाचरमसमये 'लोभस्य' संज्वलनलोभस्य स्थितिसचं 'मुहुर्तान्तः' अन्तर्मुहूतं भवति । 'संख०' इत्यादि, तत्र 'घातिनां' ज्ञानावरण-दर्शनावरणा-ऽन्तरायरूपाणां च कर्मणां स्थितिसचं संख्यसहस्रवर्षा भवति । 'अघाईण' इत्यादि, 'अघातिनां' नाम-गोत्र-वेदनीयलक्षणानां कर्मणां पुनः स्थितिसत्त्वमसंख्येयवर्षा भवति, लोभप्रथमसंग्रहकिट्टिवेदनाद्धाचरमसमयतः परं संख्यातेषु स्थितिघातेषु गतेषु स्थितिसत्वं हीनं सदिदानीमप्येतावद् भवति । उक्तं च कषायप्राभृतचूर्णी"चरिमसमयबादरसांपराइयस्स मोहणीयस्स हिदिसंतकम्ममंतोमुहत्तं । xxx
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org