________________
गणितरीत्या सूक्ष्म किट्टषु दलनिक्षेपः ] किट्टिवेदनाद्धाधिकारः
[ ३८५
सूक्ष्मकट्टिसमानखण्डं ददाति । इत्थं प्राक्तनपूर्व सूक्ष्मकिद्वितोऽस्यामपूर्व सूक्ष्म किट्टी दीयमानंदलमसंख्येयभागाधिकं जायते । कथमेतदवसीयते ? इति चेत्, उच्यते- पूर्वसूक्ष्मकिट्टितोऽस्यामन्तरजा--पूर्वसूक्ष्मकिट्टिसमानखण्डमधिकं ददाति, तच्च मध्यमखण्डस्याऽसंख्येयभागमात्रं भवति, तेन पूर्वसूक्ष्मकिट्टितो ऽसंख्येयभागाधिकं दलिकमस्यां सूक्ष्मकिट्टौ दीयमानं दलं भवति । अत्र यद्यपि पूर्वसूक्ष्मकिट्टित एकोभयचयेन निरुक्ताऽधस्तनशीर्षचयैश्च हीनं दलं ददाति, तथापि तेषामन्तरजा पूर्वसूक्ष्मकिट्टिसमानखण्डदलाऽनन्त भाग मात्र त्वेनाऽकिञ्चित्करत्वम् ।
ततोऽनन्तरायां पूर्वसूक्ष्मकिद्वावेकं मध्यमखण्डं प्रथमाऽधस्तनाऽपूर्वसूक्ष्म किङ्किप्रभृतिव्यतिक्रान्तपूर्वापूर्वसूक्ष्मकिट्टिराशिन्यून सर्वपूर्वा पूर्वसूक्ष्म किट्टिराशिप्रमाणानुभयचयान् प्रथमपूर्वसूक्ष्मकिट्टिप्रभृतिव्यतिक्रान्तपूर्वसूक्ष्मकिट्टि प्रमाणाऽधस्तनशीचयान् प्रक्षिपति । तेन पूर्ववर्त्यन्तरजा पूर्व - सूक्ष्म किट्टितोऽनन्तरपूर्वसूक्ष्म किड्डी दीयमानं दलमसंख्येयभागहीनं जायते मध्यमखण्डदलतोअन्तरजाऽपूर्वसूक्ष्मकिट्टिसमानखण्डदलस्याऽसंख्येयगुणहीनत्वात् । तत ऊर्ध्वमेकोत्तरहान्योभयचयानेकोचरवृद्धयाऽधस्तनशीर्षचयानेकैकं च मध्यमखण्डं तावद् ददाति यात्रच्चरमपूर्वसूक्ष्मकिट्टिः, नवरं पल्योपमाऽसंख्येयभागप्रमितास्त्रसंख्यातासु पूर्वसूक्ष्मविद्विषु वजितासु यत्र यत्राऽपूर्वसूक्ष्मकिविं निर्वर्तयति, तत्र तत्राऽधस्तनशीर्षचयस्थानेऽन्तरजाऽपूर्वसूक्ष्म किट्टिसमानखण्डं ददाति । तेन पूर्वा पूर्वासूक्ष्मकिट्टिसन्धौ सति पूर्वसूक्ष्म किट्टितोऽपूर्व सूक्ष्म कियाम संख्यात भागेनाधिकं तथाऽपूर्वसूक्ष्मकिट्टेः पूर्वसूक्ष्मकिटेश सन्धी सत्यपूर्वसूक्ष्मकिट्टितः पूर्वसूक्ष्म किट्टयाम संख्येयभागेन हीनं दीयमानदलं जायते, शेषासु पूर्वसूक्ष्मकिट्टिषु विशेषहीनक्रमेणैव दीयमानदलं भवति । इत्थं द्वितीयसमये सूक्ष्मकिट्टितया परिणमनाय यहलं गृहीतम्, तत्सर्व प्रक्षिप्तं भवति । ( पश्यन्तु यन्त्र कम्-२७ अ ) ततः परं बादरपूर्वापूर्वावान्तरकिट्टिषु दलं निक्षिपति । तत्र लोभतृतीयसंग्रहकिड्डौ चतुर्विधसंक्रमदलाल्लोभद्वितीयसंग्रहकिट्टौ च त्रिविधघातदलाच्चतुर्विधत्रन्धदलाद् यथायोग्यं दलं निक्षिपति ।
तत्र चरमसूक्ष्मकिट्टितो लोभतृतीय संग्रह किङ्गिप्रथम पूर्वावान्तरकिडौ दलमसंख्यातगुणहीनं ददाति, ततः शेषास्वपि सूक्ष्म किडिकर गाद्धाप्रथम समयवद् भावनीयम्, विशेषाभावात् । इति गणितविभागः ।
यथा सूक्ष्मकिट्टिकरणाद्धाया द्वितीयसमये गणितरीत्या दलिकनिक्षेपो भणितः, तथैव तृतीयादिसमयेषु भणितव्यः । ॥। १९८-१९९॥
अथ सूक्ष्मकिट्टिकरणाद्धायां दृश्यमानदलं विवर्णयिषुराह—
पढमसुमाउ चरिमं जावं दीसह दलं विसेसूणं । तोय असंखगुणं बायर पढमाअ उवरिं विसेणं ॥ २००॥ ( गीतिः)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org