________________
Jain Education International
For Private & Personal Use Only
खवगसेढी ]
०००अनेन चिह्न ना-ऽधस्तनापूर्वसूक्ष्मकिट्टिसमानखपडं सूचितम् , तच्चैकैकाधनस्तनापूर्वसूक्ष्मकिट्टौ दीयते । एकाधस्तनापूर्वसूक्ष्मकिट्टिसमान
खण्डदलं तु प्रथमसमयकृतजघन्यपूर्वसूक्ष्मकिट्टिप्रदेशतुल्यम् । .."अनेन चिह्नन पूर्वसूक्ष्मकिट्टिषु पुरातनदलं सूचितम् , तच्चोत्तरोत्तरपूर्वसूक्ष्मकिट्टी विशेषहीनक्रमेण भवति । अ-अधस्तनशीर्षचयदलम् । * प्रदेशापेक्षया सर्वपूर्वसूक्ष्मकिट्टीः प्रथमसमयकृतजघन्यपूर्वसूक्ष्मकिट्टिप्रदेशतुल्याः कर्तुं द्वितीयपूर्वसूक्ष्मकिट्टयामेकाधस्तनशीर्षचयः प्रक्षिप्यते, तृतीयपूर्वसूक्ष्मकिट्टी द्वा अधस्तनशीपचयौ, चतुर्थपूर्वसूक्ष्मकिट्टौ त्रयो-ऽधस्तनशीर्षचयाः, एवमेकोत्तरवृद्धया पूर्वसूक्ष्मकिट्टिषु तावत् प्रक्षिप्यन्ते यावच्चरमपूर्वसूक्ष्मकिट्टिः, तस्यामसकल्पनयैकत्रिंशद् (३१) अधस्तनशीर्षचयाः प्रक्षिप्यन्ते, पूर्वसूक्ष्मकिट्टीनां द्वात्रिंशत्त्वात् , वस्तुतस्त्वनन्ता अधस्तनशीर्षचया निक्षिप्यन्ते, पूर्वसूक्ष्मकिट्टीनां परमार्थतोऽनन्तत्वात् ।। * अन्तरजापूर्वसूक्ष्मकिट्टिसमानखण्डदलम , तच्च सूक्ष्मकिट्यन्तरे निर्वय॑मानायामेकैकस्यामपूर्वसूक्ष्मकिट्टी दीयते । एकान्तरजापूर्वसूक्ष्म
किट्टिसमानखण्डदलं तु प्रथमसमयकृतजघन्यपूर्वसूक्ष्मकिट्टिप्रदेशतुल्यम् । । अनेन चिह्नन मध्यमखण्डं सूचितम् , तच्चैकैकं पूर्वापूर्वसूक्ष्म किट्टिषु दीयते, एकमध्यमखण्डदलं जैकाधस्तनापूर्वसूक्ष्मकिट्टिसमानखण्ड
दलतो वैकान्तरजापूर्वसूक्ष्मकिट्टिसमानखण्डदलतो वाऽसंख्ये यगुणं भवति । उउभयचयदलम् । चरमसूक्ष्मकिट्टयामेक उभयचयः प्रक्षिप्यते, द्विचरमसूक्ष्मकिट्टो द्वा उभयौ प्रक्षिप्येते, त्रिचरमसूक्ष्म किट्टौ त्रय उभयचयाः प्रक्षिप्यन्ते, एवमेकोत्तरवृद्धयोभयचयाः पूर्वापूर्वसूक्ष्मकिट्टिपु तावत् प्रक्षिप्यन्ते,यावत् प्रथमाधस्तनापूर्वसूक्ष्मकिट्टि , तस्यां च पूर्वापूर्वसूक्ष्मकिट्टिराशिप्रमाणा उभयचयाः प्रक्षिप्यन्ते, असत्कल्पनया तु द्वाचत्वारिंशत् (४२), वस्तुतोऽनन्ताः, परमार्थतः पूर्वापूर्वसूक्ष्मकिट्टीनामनन्तत्वात् । अनेन क्रमेण दलिके प्रक्षिप्त प्रथमाधस्तनापूर्वसूक्ष्मकिट्टी प्रक्षिप्यमाणं सर्वदलम् | A इत्यनेन सूचितं प्रभूतं भवति, ततो विशेषहीनक्रमेण तावत् , यावच्चरमाधस्तनापूर्वसूक्ष्मकिट्टिः, असत्कल्पनया तु तृतीया सूक्ष्मकिट्टिः । ततोऽसंख्येयभागेन हीनम्। A इत्यनेन सूचितं दीयमानं सर्वदलं प्रथमपूर्वसूक्ष्मकिट्टी,असत्कल्पनया तु चतुर्थसूक्ष्मकिट्टौ । ततो द्वितीयादिपूर्वसूक्ष्मकिट्टिषु पल्योपमाऽसंख्येयभागप्रमाणास्वसंख्यातास्वसत्कल्पनया तु तिसृषु सूक्ष्मकिट्टिषु विशेषहीनक्रमेण तावद् भवति,यावदन्तरजापूर्वसूक्ष्मकिट्टिरप्राप्ता। ततस्तदनन्तरान्तरजाऽपूर्वसूक्ष्मकिट्टा असत्कल्पनयाऽष्टमसूक्ष्मकिट्टयामसंख्येयभागेनाधिकम् *IA इत्यनेन सूचितं दीयमानं दलं भवति, तदनन्तरपूर्वसूक्ष्म किट्टावसंख्येयभागहीनम । A इत्यनेन सूचितं दीयमानं दीलं भवति,ततः परं विशेषहीनक्रमेण तावद् भवति, यावच्चरमपूर्वसूक्ष्मकिट्टिः, नवरं यत्र यत्राऽपूर्वसूक्ष्म किट्टिर्निर्वय॑ते, तत्र तत्र प्राक्तनपूर्वसूक्ष्मकिट्टितोऽसंख्येयभागाधिकम् , तदनन्तरपूर्वसूक्ष्मकिट्टौ चासंख्येयभागेन हीनं दलं दीयते।
एवं सूक्ष्मकिट्टिकरणाद्धायाः शेषसमयेष्वपि वक्तव्यम्। दृश्यमानदलं सूक्ष्म किट्टिकरणाद्धायाः सर्वसमयेषु सर्वपूर्वापूर्वसूक्ष्मकिट्टिषु विशेषहीनक्रमेण भवति ।
www.jainelibrary.org