________________
स्वस्थानपरस्थानगोपुच्छाकाररचनाः ] किट्टिवेदनाद्धाधिकारः
[ ३७१ नवतिलक्षाणि (९५०००००) प्रदेशा भवन्ति, षष्ठाऽवान्तरकिट्टित्वात् तस्याः । लोभद्वितीयसंग्रहकिट्टिप्रथमावान्तरकिट्टौ तु प्रदेशाः पूर्ववद् नवविलक्षाणि (९००००००) विद्यन्ते । तदेवं लोभतृतीयसंग्रहकिट्टिचरमावान्तरकिट्टितो लोभद्वितीयसंग्रहकिट्टिप्रथमावान्तरकिट्टोपश्चलींनाः प्रदेशा भवन्ति, एकचयस्य चैकलक्षप्रदेशमात्रत्वात् पञ्चभिश्चयैींना भवन्ति । लोभद्वितीयसंग्रहकिटेश्वाऽटास्ववान्तरकिट्टिषु घातितासु चरमाऽवान्तरकिट्टी प्रदेशा नवसप्ततिलक्षाणि (७९०००००)भवन्ति ।
___ अवान्तरकिट्टीनां घाते जाते स्थापना लोभतृतीयसंग्रहकिट्टयपान्तरकिट्टि : प्रथमा द्वितीया तृतीया । चरमा (षष्ठी)
प्रदेशा : १००००००० ९९००००० ९८००००० ९५००००० लोभद्वितीयसंग्रहकिट्टयवान्तरकिट्टिः प्रथमा द्वितीया तृतीया चरमा (द्वादशी)
प्रदेशा : ९०००००० ८९००००० ८८००००० ७९००००० तेन द्वितीयसंग्रहकिट्टिघातदलतो दलमादाय लोभद्वितीयसंग्रहकिट्टिप्रथमावान्तरकिट्टितः प्रभृति घातितावशेषचरमावान्तरकिट्टि यावत् सर्वास्ववान्तरकिट्टिषु लोभतृतीयसंग्रहकिट्टिघातावान्तरकिट्टिराशिप्रमाणाश्चत्वारश्चयाः प्रक्षेप्तव्याः,एकवयस्य चैकलक्षप्रदेशप्रमितत्वाच्चतुर्लक्षाणि प्रदेशाः प्रक्षेप्तव्याः । एवं प्रक्षिप्तेषु प्रदेशेषु परस्थानगोपुच्छरचना जायते । पश्यन्तु पाठका यन्त्रकम्-२६ ।
स्थापना लोभतृतीयसंग्रहकिट्ययान्तरकिट्टि : प्रथमा द्वितीया तृतीया
चरमा (षष्ठी) प्रदेशा : १००००००० ९९००००० ९८००००० ९५००००० लोभद्वितीयसंग्रहकिट्टयवान्तरकिट्टिः प्रथमा द्वितीया तृतीया । चरमा (द्वादशी)
प्रदेशा : ९४००००० ९३००००० ९२००००० ८३००००० इह लोभतृतीयसंग्रहकिटौ संक्रमतोऽपूर्वावान्तरकिट्टीनिवर्तयन् संक्रमदलतः पूर्वावान्तरकिट्टिष्वपि मध्यमखण्डादिरूपेण दलं प्रक्षिपति । वेद्यमानसंग्रहकिट्टी तु स्वपूर्वावान्तरकिट्टिषु वक्ष्यमाणाऽधस्तनशीषेचयमध्यमखण्डोभयचयदलं यद् दास्यति, तद्घातदलत एव दास्यति । तच्च पृथक्स्थापयितव्यम् । अथ स्वस्थानगोपुच्छरचनाय प्रक्षिप्तदलं तथा परस्थानगोपुच्छरचनाय दत्तदलं पृथक्स्थापितं च लोभद्वितीयसंग्रहकिट्टिवक्ष्यमाणाऽधस्तनशीर्षचयमध्यमखण्डोभयचयदलमित्येतद्दलसमूहः सर्वघातदलतो विशोध्य शेषसर्वघातदलं लोभतृतीयसंग्रहकिट्टिप्रथमावान्तरकिट्टितः प्रभृति लोद्वितीयसंग्रहकिट्टिचरमावान्तरकिट्टि यावत् सर्वासु घातरहितास्ववान्तरकिट्टिषु विशेषहीनक्रमेण प्रक्षिपति । गणितरीत्या च निक्षेपः किट्टिवेदनाद्धाप्रथमसमयवद् दर्शयितव्यः ।
अथ तृतीयसंग्रहकिट्टौ सूक्ष्मकिट्टिषु च संक्रमेणाऽऽगतदलस्य लोभद्वितीयसंग्रहकिटेच बध्यमानत्वेन तत्र बन्धत आगतस्य दलस्य तथा पृथक्स्थापितघातदलस्याऽधस्तनशीषचयदलादिभिः प्ररूपणा क्रियते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org