SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ सूक्ष्मकिट्टिा दलनिक्षेपविधिः ] किट्टिवेदनाद्वाधिकारः [ ३६७ करणाद्धाप्रथमसमये सूक्ष्मकिट्टीः प्रभूता निर्तयति, ततो द्वितीयसमये-ऽसंख्येयगुणहीना अपूर्वाः सूक्ष्मकिट्टीनिवर्तयति, ततोऽपि तृतीयसमयेऽसंख्येयगुणहीना अपूर्वाः सूक्ष्मकिट्टीनिवर्तयति । एवं प्रतिसमयमसंख्येयगुणहीनक्रमेणाऽपूर्वाः सूक्ष्मकिट्टीस्तावद् निर्वर्तयति, यावत् सूक्ष्मकिट्टिकरणाद्धाचरमसमयः । अभ्यधायि च कषायप्राभतचूर्णी-"सुहुमसांपराइयकिटीओ जाओ पढमसमए कदाओ, ताओ बहुगाओ। विदियसमये अपुवाओ कोरंति असंखेज्जगुणहोणाओ। अणंतरोवणिधाए सव्विस्से सुहमसापराइयकिटीकरणडाए अपुव्वाओ सुहुमसांपराइयकिटोओ असखेज्जगुणहीणाए सेढीए कोरंति।" इति । __अथ सूक्ष्मकिट्टिकरणाद्धायां वर्तमानोऽनन्तगुणवृद्धायां विशुद्धयां प्रवर्धमानः सूक्ष्मकिट्टिषु प्रतिसमयमसंख्यातगुणक्रमण दलं प्रक्षिपतीति ज्ञापनार्थमाह-पउिसमय०' इत्यादि, प्रतिसमयमसंख्यगुणक्रमेण दलं सूक्ष्मासु किट्टिषु 'ददाति' निक्षिपति । तथाहि-सूक्ष्मकिट्टिकरणाद्धाप्रथमसमये सक्ष्मकिट्टिषु स्तोकं दलं ददाति । ततो द्वितीयसमयेऽसंख्येयगुणं दलं सक्ष्मकिट्टिषु ददाति ततोऽपि तृतीयसमयेऽसंख्येयगुणं दलं सूक्ष्मकिट्टिषु ददाति । एवं प्रतिसमयमसंख्यगुणक्रमेण सूक्ष्मकिट्टिषु दलं तावद् ददाति, यावत् सूक्ष्मकिट्टिकरणाद्धायाश्चरमसमयः । भणितं च कषायप्राभूतचूर्णी "सुहुमसांपराइयकिटीसु पढमसमये पदेसग्गं दिज्जदि, तं थोवं, विदियसमये असंखेज्जगुणं। एवं जाप चरिमादो त्ति असंखेज्जगुणं ।” इति ॥१९५।। सूक्ष्मकिट्टिषु सामान्यतो दलनिक्षेपं विधाय सामान्यज्ञानस्य विशेषजिज्ञासायां हेतुत्वात् प्रथमसमये क्रियमाणासु सूक्ष्मकिट्टिषु विशेषतो दलनिक्षेपविधि प्रसङ्गतश्च बादरकिट्टिषु दलनिक्षेपविधिं विभणिषुराह पढमसुहुमाअ देइ दलं बहु उप्पिं विसेसहीणकमेणं बादरपढमाम असंखगुणूर्ण उवरिमासु य विसेसूणं ॥१९६॥ (आर्यागीतिः) प्रथमसूक्ष्मायां ददाति दलं बहूपरि विशेषहीनक्रमेण । बादरप्रथमायामसंख्यगुणोजमुपरितनीषु च विशेषोतम् ॥१९६॥ इति पदसंस्कारः । 'पढम' इत्यादि, सत्तागतदलस्याऽसंख्येयभागप्रमितं दलिकं गृहीत्वा सूक्ष्मकिट्टिकरणाद्धाप्रथमसमये 'प्रथमसूक्ष्मायां' प्रथमसमयेन याः सूक्ष्मकिट्टयो क्रियन्ते, तासां या सर्वजघन्या किट्टिः, सा प्रथमसूक्ष्मकिट्टिरुच्यते, तस्याम् , 'दलं' प्रदेशाग्र 'बहु' प्रभूतं ददाति । 'उप्पिं' इत्यादि, 'उपरि' प्रथमसूक्ष्मकिट्टया उपरि विशेषहीनक्रमेण दलं ददाति । भावार्थः पुनरयम्-सूक्ष्मकिट्टिकरणाद्धाप्रथमसमये जघन्यायां सूक्ष्मकिट्टी प्रभूतं प्रदेशाग्रं ददाति । ततोऽनन्तभागेन हीनं द्वितीयस्यां सूक्ष्मकिट्टौ ददाति । ततोऽप्यनन्तभागेन हीनं तृतीयस्यां सूक्ष्मकिट्टौ ददाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy