________________
२९४ ]
खवगसेढी
[ गाथा--१४४ शलाका ग्रहीतव्या। तत्रैकस्थित्यामवतिष्ठमानानां समयप्रबद्धशेषकाणां गृहीताः सर्वाः शलाकाः स्तोका भवन्ति । ततो द्वयोः स्थित्योरवतिष्ठमानानां समयप्रबद्धशेषकाणां गृहीताः सर्वाः शलाका विशेषाधिका भवन्ति । एवं विशेषाधिकक्रमेण पल्योपमाऽसंख्येयभागप्रमाणस्थानेषु गतेषु शलाका प्रथमस्थानापेक्षया द्विगुणा भवन्ति, इदश्च प्रथमं द्विगुणवृद्धिस्थानम् । ततः पुनरेतावत्सु स्थानेषु वजितेषु शलाका द्विगुणा भवन्ति, इदञ्च द्वितीयं द्विगुणवृद्धिस्थानम् । एवंक्रमेण पन्योपमाऽसंख्येयभागप्रमाणेषु द्विगुणवृद्धिस्थानेषु व्रजितेषु यवमध्यं लभ्यते । तस्योपरि शलाका हीयमाना गच्छन्ति । पल्योपमाऽसंख्येयभागप्रमाणेषु च स्थानेषु गतेषु द्विगुणहीनाः शलाका भवन्ति । ततः पुनः पल्योपमाऽसंख्येयभागमात्रेषु स्थानेषु गतेषु शलाका द्विगुणहीना भवन्ति । एवंक्रमण द्विगुणवृद्धिस्थानतोऽसंख्यगुणेषु द्विगुणहानिस्थानेषु गतेषु सत्सु चरमस्थानं प्राप्यते । तत्र नानाद्विगुणवृद्धिहानिस्थानानि स्तोकानि, द्विगुणवृद्धिहानिस्थानानां सर्वाः सम्पिण्डिताः शलाकाः स्तोका भवन्तीत्यर्थः, ततो विवक्षितस्थानतो यावत्सु स्थानेषु गतेषु द्विगुणवृद्धिस्थानं प्राप्यते, तान्येकान्तरसंज्ञकान्यसंख्येयगुणानि भवन्ति । एवमेव भवबद्धशेषकाणि निरवशेषं प्ररूपयितव्यानि, विशेषाभावात् । पश्यन्तु पाठका यन्त्रकम्-२२ ॥१४३॥
सम्प्रति समयप्रबद्धशेषकाणां भवबद्धशेषकाणां चाधारभूता अनाधारभूताश्च सामान्यस्थितीरसामान्य स्थितीश्च प्ररुरूपयिषुराहसेसाणि जट्ठिईए सा सामण्णा परा असामण्णा । एगा इगाहिअकमा निरंतराऽऽवलिअसंखभागमिआ ॥१४४।। (गीतिः)
शेषाणि यस्थितौ सा सामान्या पराऽसामान्या।
एकैकाधिकक्रमाद् निरन्तरा आवलिकाऽसंख्यभागमिताः ॥१४४॥इति पदसंस्कारः। 'सेसाणि' इत्यादि 'शेषाणि' समयप्रबद्धशेषकाणि भवबद्धशेषकाणि च 'यस्थितो' यस्यां स्थितौ विद्यन्ते “यत्राऽन्यत् क्रियापदंन श्रूयते तत्राऽस्तिर्भवन्तीपरः प्रयुज्यते" इति न्यायदर्शनेन अस्तिना च भवतिर्विद्यतिरित्यादीनां ग्रहणाद् विद्यन्त इति क्रियापदाभिधानम् , सा शेषकाणामाधारभूता सामान्या स्थितिरुच्यते, तत्र समयभवप्रबद्धशेषकाख्यकर्मप्रदेशानामितरेषां च कर्मप्रदेशानां साधारणत्वेनावस्थानात् । 'परा' सामान्यतोऽन्या, यस्यां स्थितौ समयप्रवद्धशेषकाणि भवबद्धशेषकाणि च न विद्यन्ते, सा असामान्या स्थितिरुच्यत इत्यर्थः । समयप्रबद्वशेषकाणां भवबद्धशेषकाणां चाऽऽधारभूताः स्थितयः सामान्याः, तेषामनाधारभूताः स्थितयोऽसामान्या व्यपदेष्टव्या इति संक्षेपार्थः । उक्तश्च कषायप्राभृतचूर्णी-“एक्कम्हि ठिदिविसेसे जम्हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org