SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ समयप्रबद्धशेषकसहितस्थित्यल्पबहुत्वम् ] किट्टिवेदनाद्धाधिकारः [२८९ समयपबद्धस्स सेसयं दोण्हं वा तिण्हं वा उक्कस्सेण पलिदोवमस्स असंखेज्जदिभागमेत्ताणं समयपबद्धाणं । एवं चेव भवबद्धसेसाणि।"इति । इदमत्राऽवधेयम्-क्षपकस्याऽक्षपकस्य चैकस्थितावुत्कर्षेण भवप्रबद्धतोऽसंख्येयगुणानां समयप्रबद्धानां शेषकाणि भवन्ति ॥१४०॥ तदेवं दर्शितमेकस्यां स्थित्यामेकसमयप्रबद्धतः प्रभृत्युत्कृष्टतः पल्योपमासंख्येयभागमात्राणां समयप्रबद्धानां शेषकाणामवस्थानम् । तत्र किमेकसमयप्रद्धशेषकविशिष्टाः स्थितयः स्तोका भवन्ति ? आहोस्वित् पल्योपमाऽसंख्येयभागमात्राणां समयप्रबद्धानां शेषकैविशिष्टा स्थितयः ? इत्यादिके पृष्टेऽल्पबहुत्वं प्राह इगसमयपबद्धस्स तु सेसेण ठिई जुआऽप्पगाऽणेगाणं । होन्ति असंखगुणा पल्लअसंखंसपमिआण च असंखंसा ॥१४१॥ (आर्यागीतिः) एकसमयप्रबद्धस्य तु शेषेण स्थितयो युता अल्पका अनेकेषाम् ।। भवन्त्यसंख्यगुणाः पल्या-ऽसंख्यांशप्रमितानां चाऽसंख्यांशाः ॥ १४१ ॥ इति पदसंसकरः। 'इग०' इत्यादि, एकसमयप्रबद्धस्य तु 'शेषेण' शेषकेण'युताः' मिश्रिता अविरहिता इत्यर्थः, स्थितयः 'अल्पकाः' स्तोका भवन्ति । क्षपकस्य वर्षपथक्त्तमात्रस्थितिष्वेकसमयप्रबद्धशेषकेणाऽविरहिताः स्थितय आवलिकाऽसंख्येयभागप्रमिता भवन्त्योऽपि सर्वस्तोका भवन्तीत्यर्थः। 'णेगाणं' इत्यादि, ततो 'अनेकेषां' द्विप्रभृतितत्प्रायोग्याऽसंख्यातपर्यवसानानां समयप्रबद्धानां शेषकेणाऽविरहिताः स्थितयोऽसंख्यगुणा भवन्ति, एकसमयप्रबद्धशेषकयुक्तस्थितितोऽनेकसमयप्रबद्धशेषकाऽविरहितस्थितीनामसंख्यातगुणत्वस्य न्याय्यत्वात् । ननूत्कृष्टतोऽनेकसमयप्रवद्धशेषकेणाविरहिताः कति स्थितयो भवन्ति ? इत्यत आह--'पल्ल०' इत्यादि, 'पल्योपमाऽसंख्यांशप्रमिताना' पल्योपमाऽसंख्येयभागप्रमितानां समयप्रबद्धानांशेषकेणाऽविरहिताःस्थितयो 'असंख्यांशाः' क्षपकस्य वर्षपृथक्त्वमात्रस्थितेह्वसंख्येयभागमात्र्यो भवन्ति, तेन शेषाणां तत्प्रायोग्याऽनेकसमयप्रबद्धानां शेषकेणाऽविरहिताः स्थितय आवलिकाऽसंख्येयभागप्रमाणा भवन्त्यः सकलस्थितीनामसंख्येयभागमात्र्यो भवन्ति । उक्तं च कषायप्राभतचूर्णी-"जाओ ताओ अविरहिदहिदोओ, ताओ एगसमयपबद्धसेसरण अविरहिदाओ थोवाओ । अणेगाणं समयपबद्धाणं सेसएण अविरहिदाओ असंखेज्जगुणाओ। पलिदोवमस्स असंखेज्जदिभागमेत्ताणं समयपबडाणं सेसएण अविरहिदाओ असंखेज्जा भागा।” इति । अत्र मुग्धचोदको भणति-नन्वेकसमयप्रबद्धस्य शेषकेणा-ऽविरहिताः स्थितयः स्तोकाः, ततो द्वयोः समयप्रबद्धयोः शेषकेणा-विरहिता विशेषाधिकाः, ततोऽपि त्रयाणां समयप्रबद्धानां शेषकेणाऽविविरहिता विशेषाधिकाः। एवंक्रमेणाऽऽवलिकाऽसंख्येयभागे च गते द्विगुणा इत्यादिक्रमेण पल्यो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy