________________
न्यासः
२७८ ]
खवगसेढी
[ गाथा-१३७ मपूर्वावान्तरकिट्टी द्वौ बन्धचयो ददाति । एवमेकोत्तरवृद्धिक्रमेण बन्धचयान् बन्धपूर्वावान्तरकिट्टिषु तावद् ददाति, यावल्लोभप्रथमसंग्रहकिट्टिबन्धजघन्यपूर्वावान्तरकिट्टिः । ते च बन्धचयाः “सैकपदनपदार्धमथैकाद्यङ्कयुतिः किल सङ्कलिताख्या।” इति गणितकरणसूत्रेण सङ्कलयितव्याः । पदं त्वत्र क्रोधमानमायालोभानां बध्यमानपूर्वापूर्वाऽवान्तरकिट्टिराशिर्बोद्धव्यम् ।
___ एकबन्धचयगतदलं सर्वबन्धचयैगुण्यते, तदा सर्वबन्धचयदलं प्राप्यते । सर्वबन्धचयाः = (पदम् + १) x पदम् सर्वबन्धचयदलम्=एकबन्धचयगतदलम् सर्वबन्धचयाः ।
(४) बन्धमध्यमखण्डदलम्-प्रागुक्ताद् बन्धदलाऽनन्ततमभागप्रमाणदलात् सर्वबन्धचयंदलं विशोध्य शेषवन्धदलं बन्धमध्यमखण्डदलं भवति,तच्च बध्यमानपूर्वापूर्वावान्तरकिट्टिराशिना विभज्यते, तदैकं बन्धमध्यमखण्डं प्राप्यते । तच्चैकैकं बन्धमध्यमखण्डं सर्वासु बन्धपूर्वापूर्वावान्तरकिट्टिष्वविशेषेण दातव्यम् । एकबन्धमध्यमखण्डदलं चैकबन्धापूर्वावान्तरकिट्टिसमानखण्डदलस्यानन्ततमभागकल्पं भवति ।
___ बध्यमानपूर्वावान्तरकिट्टिषु संक्रमोभयचयदलं बध्यमानाऽपूर्वावान्तरकिट्टिषु च बन्धाऽपूर्वावान्तरकिट्टिचयदलं येना-ऽनन्ततमभागेन हीनं प्राक्षिप्यत, सोऽनन्ततमभागो बन्धमध्यमखण्डे यथायोग्यं च बन्धचयदले प्रक्षिप्ते परिपूर्यते ।
अथ बन्धदलस्य संक्रमदलस्य घातदलस्य च निक्षेपविधिर्भण्यते-तृतीयसंग्रहकिट्टिद्वितीयसंग्रहकिट्टिश्च न बध्यते, तेन तत्र पञ्चविधसंक्रमदलत एव दलिकं यथासंभवं दीयते । प्रथमसंग्रहकिट्टी तु बन्धदलतः संक्रमदलतश्च दलिकं यथायोग्यं दीयते,वेद्यमानसंग्रहकिट्टी च बन्धदलतो घातदलतश्च यथायोग्यं दलं प्रक्षिप्यते ।
तथाहि-लोभतृतीयसंग्रहकिट्टयन्तरोत्पन्ना या सर्वप्रथमाऽपूर्वावान्तरकिट्टिः, तस्यां संक्रमदलत एकाऽधस्तनाऽपूर्वावान्तरकिट्टिदलमेकमध्यमखण्डं सर्व पूर्वाऽपूर्वाधान्तरकिट्टिराशिप्रमाणांश्चोभयचयान् ददाति । ततो लोभतृतीयसंग्रहकिट्टयन्तरोत्पन्न द्वितीयाऽपूर्वावान्तरकिट्टौ संक्रमदलत एकाधस्तनाऽपूर्वावान्तरकिट्टिदलमेकमध्यमखण्डमेकोनसर्वपूर्वापूर्वावान्तरकिट्टिराशिप्रमाणांश्चोभयचयान् ददाति । इत्थं लोभतृतीयसंग्रहकिट्टयन्तरोत्पन्नप्रथमाऽपूर्वावान्तरकिट्टितो लोभतृतीयसंग्रहकिट्टयन्तरोत्पन्न द्वितीयाऽपूर्वावान्तरकिट्टयामनन्ततमभागरूपेणैकोभयचयेन हीनं ददाति । ततः परं लोभतृतीयसंग्रहकिट्टयन्तरोत्पन्नतृतीयाद्यपूर्वावान्तरकिट्टिषु संक्रमदलन एकैकाधस्तनाऽपूर्वावान्तरकिट्टिदलमेकैकमध्यमखण्डमेकोत्तरहान्या चोभयचयाँस्तावत् प्रक्षिपति, यावत् तृतीयसंग्रहकिट्टयन्तरोत्पन्नचरमाऽपूर्वावान्तरकिट्टिः । इत्थं लोभतृतीयसंग्रहकिट्टयन्तरोत्पन्नचरमा पूर्वावान्तरकिट्टि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org