________________
गणितरीत्याऽवान्तरकिट्टिषु दलनिक्षेपः ] किट्टिवेदनाद्धाधिकारः
[ २६९ क्रोधस्य च तृतीयसंग्रहकिट्टि-रितीयसंग्रहकिट्टयोदलनिक्षेपो वक्तव्यः । क्रोधप्रथमसंग्रहकिट्टौ तु संक्रमदलतोऽपूर्वावान्तर्राकट्टयो न निर्वयन्ते ।
अथ प्रकारान्तरेण दलिकनिक्षेपविधिाख्यायते-संग्रहकिट्टयन्तरजायावरमाऽपूर्वावान्तरकिट्टेः प्रथमपूर्वाऽवान्तरकिटेश्च सन्धौ सति संग्रहकिट्टयन्तरजचरमाऽपूर्वाऽवान्तरकिट्टितः प्रथमपूर्वावान्तरकियामनन्तगुणहीनं दलं ददाति । किट्टिकरणवद्' इत्यत्र सादृश्यार्थश्व नरन्तर्यापेक्षया बोध्यः, यथा किट्टिकरणाद्धायामेकैकसंग्रहकिट्टयपूर्वावान्तरकिट्टिषु निरन्तरं दलमनन्तभागेन हीनं ददाति, तथैव किट्टिवेदनाद्धायां संग्रहकिट्टेरवस्तात् निर्वत्यमानासु संग्रहकिट्टयन्तरजास्वपूर्वावान्तरकिट्टिषु यथोत्तरं निरन्तरमनन्ततमभागेन हीनं हीनतरं दलं ददाति ।
पूर्वाऽवान्तरकिटेरवान्तरकिट्टयन्तरजायाश्चाऽपूर्वावान्तरकिटेः सन्धौ सति पूर्वावान्तरकिट्टितोऽवान्तरकिट्टयन्तरजायामपूर्वावान्तरकिट्टयामनन्तगुणं दलं ददाति, अपूर्वावान्तरकिट्टितोऽनन्तरपूर्वाऽवान्तरकिट्टयामनन्तगुणहीनं दलं ददाति । 'बन्धवद्' इत्यत्र सादृश्यार्थश्च प्राग्वदन्तरापेक्षया बोद्धव्यः ।
अनेन विकल्पेन दलनिक्षेपविधिरित्थं प्ररूपयितव्यः-लोभतृतीयसंग्रहकिट्टिप्रथमाऽपूर्वावान्तरकिटेरधस्ताद् या अपूर्वाऽवान्तरकिट्टय उत्पद्यन्ते, तासु या सर्वजघन्याऽनुभागका भवति, तस्यां प्रभूतं दलिकं ददाति । ततो द्वितीयस्यां लोभतृतीयसंग्रहकिट्टयन्तरोत्पन्नायामपूर्वावान्तरकिट्टौ विशेषहीनं दलं प्रक्षिपति । ततोऽनन्तरानन्तरेण विशेषहीनं दलं तावद् ददाति, यावल्लोभतृतीयसंग्रहकिट्टयन्तरोत्पन्नचरमाऽपूर्वावान्तरकिट्टिः।
लोभतृतीयसंग्रहकिट्टयन्तरोत्पन्नचरमाऽपूर्वावान्तरकिट्टितो लोभतृतीयसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टावनन्तगुणहीनं दलं ददाति । ततः परमनन्तरानन्तरेणाऽनन्तभागेन हीनं तावद् ददाति, यावत् संक्रमाऽपूर्वावान्तरकिट्टिरप्राप्ता भवति । ___ततः पूर्वावान्तरकिट्टितः संक्रमाऽपूर्वावान्तरकिट्टावनन्तगुणं दलं ददाति । ततोऽनन्तगुणहीनं दलं पूर्वावान्तरकिट्टौ ददाति । ततः परं सर्वत्र यथोत्तरमनन्तभागेन हीनं दलं ददाति । नवरं यत्र यत्र पूर्वावान्तरकिट्टेरपूर्वावान्तरकिटेश्च सन्धिर्जायते, तत्र तत्र पूर्वावान्तरकिहितो-ऽपूर्वावान्तरकिट्टावनन्तगुणं दलं ददाति, अपूर्वावान्तरकिट्टितवानन्तरपूर्वावान्तरकिट्टयामनन्तगुणहीनं दलं ददाति । एवं लोभस्य द्वितीयसंग्रहकिट्टिप्रथमसंग्रहकिट्टयोर्मायामानयोः संग्रहकिट्टित्रये क्रोवस्य च तृतीयसंग्रहकिट्टिद्वितीयसंग्रहकिट्टयोर्दलनिक्षेपो वक्तव्यः, विशेषाभावात् । इत्थं यथागमं व्याख्यानद्वयं दर्शितम् , तत्त्वं तु केवलिनो विदन्ति । पश्यन्तु पाठका यन्त्रकम्-२० ।
अथ गणितविभागः ॐ अथ संक्रमदलस्य बन्धदलस्य चाऽधस्तनशीर्षचयदलादिभिः प्ररूपणा क्रियते--अन्यसंग्रहकिट्टितो विवक्षितसंग्रहकिट्टि संक्रमतो यद् दलं गच्छति, तद् आयदलमिति प्राक् परिभाषितम् ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org