________________
२२२ ]
aarसेढी
[ गाथा-- १०५-१०७ अथ पञ्चेन्द्रियमार्गणास्थाने बदलं क्षपकस्य सत्कर्मणि विद्यते, क्षपकश्रेणेः पञ्चेन्द्रियत्वाऽविनाभावित्वात् ।
एवं काये बद्धकर्मदलं क्षपकस्य सत्कर्मणि नियमतो विद्यते, क्षपकश्रेणेस्त्रसत्वाऽविनाभावित्वात् । उक्त ं च कषायप्राभृतचूर्णौ- "तसकाइयं समज्जिदं णियमा अत्थि । "इति । औदारिककाययोगमार्गणायामौदारिकमिश्रकाययोगमार्गणायां चतसृषु मनोयोगमार्गणासु चतसृषु च वचनयोगमार्गणासु बद्धदलं क्षपकस्य सत्कर्मणि नियमेन विद्यते, चरमभवेऽपि निरुक्तदशयोगानां दर्शनात् । उक्त च कषायप्राभूते
" ओरालिए सरोरे ओरालियमिस्सए च जोगे दु । चदुविधमणव चिजोगेच अभज्जाXXXXX ॥ १ ॥” इति ।
तथैव तच्चूर्णावपि - "ओरालियेण ओरालियमिस्सयेण चउव्विद्देण मणजोगेण चविण वचिजोगेण बडाणि अभज्जाणि ।” इति ।
तथा नपुंसक वेदमार्गणायां बद्धदलं किट्टिकाराणां किट्टिवेदकानां च सत्कर्मणि नियमतो विद्यते, उत्कृष्टतोऽपि नपुंसक वेदान्तरस्य साधिकसागरोपमशतपृथक्त्वमात्रत्वात् । उक्त च कषायप्राभृते - “ XXXणवु सयए सम्मत्ते । कम्माणि अभज्जाणिXX ।” इति । तथैव तच्चूर्णावपि - "XXXणवु सयवेदेण च एवं भावभूदेण बद्धाणि णियमा अत्थि ।” इति ।
I
1
क्रोध-मान-माया-लोभरूपचतुष्कषायमार्गणासु बद्धप्रदेशाग्र किट्टिकाराणां किट्टिवेदकानां च सत्कर्मणि नियमतो वर्तते, मनुष्यभवेऽप्यन्तमुहूर्ततः परं कषायोदयपरावृत्तिदर्शनात् । उक्त ं च कषायप्राभृतचूर्णौ – कोहमाणमायालो भोवजुत्ते हिं बडाणि अभजियव्वाणि । " इति ।
मतिज्ञानमार्गणायां श्रुतज्ञानमार्गणायां च बद्धदलं नियमतो विद्यते, चरमभवेऽपि मतिज्ञानश्रुतज्ञानयोर्दर्शनात् । तथा मत्यज्ञानमार्गणायां श्रुताज्ञानमार्गणायां च बद्धदलं किट्टिकाराणां किट्टिवेदकानां च सत्कर्मणि नियमतो वर्तते, मिथ्यात्वसहचरितत्वात् । उक्त च कषायप्राभृतचूर्णी - "सुदणाणे अण्णाणे, मदिणाणे अण्णाणे, एदेसु उवजोगेसु पुव्वबडाणि forमा अस्थि ।” इति । अत्र मत्यज्ञानश्रुताज्ञानयोर्हेतुभावना तु तयोर्मिथ्यात्वसहचरितत्वाद् वक्ष्यमाणमिथ्यात्ववत् कार्या ।
अविरतिमार्गणायां बद्धदलं किट्टिकाराणां किट्टिवेदकानां च सत्कर्मणि नियमतो विद्यते, वर्तमानभवेऽपि जघन्यतः साविकत्रर्वाष्टकं यावदविरतिमार्गणायाः प्रवृत्तत्वात् ।
सामायिकसंयममार्गणायां बद्धदलं किट्टिकाराणां किट्टिवेदकानां च सत्कर्मणि नियमेन वर्त्तते संयममृते क्षपकश्रेणेरसंभवात् शेषसंयमानामपि सामायिक संयमपूर्वकत्वात् ।
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org