________________
गणितरीत्या दीयमानदलिकानि ] किट्टिकरणाद्धाधिकारः
[ १८७ किट्टितया परिणमनाय गृहीतदलतः सर्वचयदलं विशोध्य शेषं दलं किट्टिराशिना विभज्यैकैकखण्डं सर्वकिट्टिषु ददाति । तथा चयदलिकत एकोनकिट्टिराशिप्रमाणांश्चयान् लोभप्रथमसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टौ ददाति, द्वितीयावान्तरकिट्टी द्वय नकिट्टिराशिप्रमाणांश्चयान् ददाति, तत एकैकचयेन हीनं तावद् ददाति, यावत् क्रोधततीयसंग्रहकिट्टिद्विचरमावान्तरकिट्टिः, तेन तस्यामेकचयदलं ददाति । ततः क्रोधतृतीयसंग्रहकिट्टिचरमावान्तरकिट्टौ चयदलतो दलिकं न प्रक्षिपति, पूर्वोक्तमेकखण्डदलं तु प्रक्षिपत्येव । एवंक्रमेण दलिकप्रक्षेपे सति लोभप्रथमसंग्रहकिट्टिप्रथमावान्तरकिट्टौ दलं प्रभूतं निक्षिप्यते, एकोनकिट्टिराशिप्रमाणचययुतैकखण्डमात्रत्वात्, ततो द्वितीयावान्तरकिट्टावेकचयेन हीनं निक्षिप्यते, द्वय नकिट्टिराशिप्रमाणचयसमन्वितैकखण्डप्रमितत्वात् । एवं तावद् वक्तव्यम् , यावत् क्रोधतृतीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टिः ।।
___ एतदेवा-ऽसत्कल्पनया दश्यते-किट्टिकरणाद्धाप्रथमसमये किट्टिराशिः किट्टितया च परिणमनाय गृहीतं दलमित्येतत् सर्व पूर्ववत् कल्पनीयम् । एकचयदलं पूर्वोक्तरीत्यैकदलिकमात्रं साधनीयम् ।। सर्वचयराशिस्तु “सैकपदघ्नपदार्धमथैकाद्यतयुतिः किल सङ्कलिताख्या।" इत्यनेन श्रीभास्करकरणसूत्रेणैकविंशत्यधिकैकशतोचरत्रयःषष्टिसहस्राधिकत्रयस्त्रिंशल्लक्षसंख्यको(३३,६३,१२१) लभ्यते । तथाहि एकोनकिट्टिषु चयप्रक्षेपात् पदमौकोनकिट्टिराशिस्त्रयोनवत्यधिकपञ्चविंशतिशतमात्रमित्यर्थः, तदेकेन सहितं जातं चतुर्नवत्यधिकपञ्चविंशतिशतप्रमाणम् ( २५९३+१= २५९४) । अथ चतुर्नवत्यधिकपञ्चविंशतिशतानि द्विकविभक्तत्रयोनवत्युत्तरपञ्चविंशतिशतलक्षणेन पदार्धन विभज्यन्ते, तदा सर्वचयराशिरेकविंशत्यधिकैकशतत्रयःषष्टिसहस्रोत्तरत्रयस्त्रिंशल्लक्षमात्रः (३३,६३,१२१) उपलभ्यते । स चैकचयदलेनैकसंख्यकेन गुण्यते, तदा सर्वचयदलमेकविंशत्यधिकैकशतोत्तरत्रयःषष्टिसहस्राधिकत्रयरित्रशल्लक्षामितं ( ३३,६३,१२१) भवति ।
अथोक्तसर्वचयदलं किट्टितया परिणमनाय गृहीतदलिकेभ्यः पञ्चनवत्यधिकत्रिशतोत्तरपञ्चाशीतिसहस्राधिकत्रिनवतिलक्षोत्तरसप्ताशीतिकोटीसंयुक्तद्वयब्जसंख्यकेभ्यो (२८७९३८५३९५) विशोध्यते, तदा चतुःसप्तत्यधिकद्विशतोत्तरद्वाविंशतिसहस्राधिकषष्टिलक्षसंयुक्तसप्ताशीतिकोटयधिकद्वयब्जप्रमाणानि (२८७९३८५३९५-३३६३१२१=२८७६०२२२७४) दलिकान्यवशिष्यन्ते, तानि किट्टिराशिना चतुर्नवत्युत्तरपञ्चविंशतिशतमानेन ( २५९४) विभज्यते, तदैकखण्डमेकविंशत्यधिकसप्तशतोत्तराष्टसहस्राधिकैकादशलक्षदलिकप्रमाणं ( ११०८७२१ ) प्राप्यते । न्यास :कल्प्यते किट्टितया परिणनाय गृहीतं दलम् = २८७९३८५३९५
किट्टिराशिः = २५९४ द्विगुणहानिः = ५५५६५७
सर्वचयाः = ( पदम्+१) x पदम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org