________________
गणितरीत्या दीयमानदलिकानि ]
किट्टिकरणाद्धाधिकारः
[ १८५
“पढमसमए किट्टीसु पदेसग्गस्स सेढिपरूवणं वत्तइस्सामो । तं जहा -लोभस्स जहणियाए किट्टीए पदेसग्गं बहुअं, विदियाए किट्टीए विसेसहीणं । एवमणंतरोवfuary विसेसहीणमणंतभागेण जाव कोहस्स चरिमकिट्टि त्ति ।" इति । अथ गणितविभागः ।
सम्प्रति गणितरीत्या दीयमानदलं दश्यते किट्टिकरणाद्धाप्रथमसमये पूर्व्वापूर्व्वस्पर्धकेभ्यो ऽसंख्येयभागमात्रदलमुत्कीर्योत्कीर्णदलस्याऽसंख्येयभागप्रमाणं दलं किट्टितया परिणमयति । शेषाऽसंख्येयबहुभागमात्रदलं पूर्वापूर्वस्पर्धकेषु ददाति । किट्टितया परिणमनाय गृहीतसकलदलिकतः प्रभूतं दलिकं लोभप्रथम संग्रह किट्टि प्रथमाऽवान्तरकिट्टौ ददाति । तद्यथा - किट्टितया परिणमनाय गृहीतसकलदलं पदेन विभक्तव्यम् । लब्धं च मध्यमदलमिति व्यवह्रियते । किट्टिराशिच पदं वक्तव्यः । मध्यमदलं पुनरर्धीकृतैकोनपदन्यूनाभ्यां द्वाभ्यां द्विगुणहानिभ्यां विभज्यते, तदैकचयदलं प्राप्यते । एकचयदलं तु द्वाभ्यां द्विगुणहानिभ्यां ताड्यते, तदा ताडितं दलं लोभप्रथम संग्रह किप्रिथमावान्तरकिट्टी दीयमानदलं भवति । ततो द्वितीया - ऽवान्तरविद्वावेकचयेन हीनं ददाति । ततो द्वितीयावान्तरकिट्टितस्तृतीयावान्तरकिट्ट्यामेकचयेन हीनं ददाति । एवमेकचयहीनक्रमेण तावद् ददाति यावत् क्रोधतृतीयसंग्रहकिट्टिचरमावान्तरकिट्टिः ।
असत्कल्पनया किट्टिकरणाद्वाप्रथमसमये चतुर्नवत्यधिकपञ्चविंशतिशतानि ( २५९४ ) किट्टी र्निर्वर्तयति, किट्टितया च परिणमनाय द्व-ऽब्जे सप्ताशीतिकोटयस्त्रयोनवतिलक्षाणि पञ्चा - शीतिसहस्राणि पञ्चनवत्यधिकत्रिशतानि ( २८७९३८५३९५ ) दलिकानि गृह्णाति, द्विगुणहानिश्च सप्तपञ्चाशदधिकषट्शताधिकपञ्चपञ्चाशत्सहस्रोत्तरपञ्चलक्षमात्रेति कल्प्यते ।
अथ किट्टितया परिणमनाय गृहीतानि पञ्चनवत्यधिकत्रिशतो त्तरपञ्चाशीतिसहस्राधिकत्रयोनवतिलक्षोत्तरसप्ताशीतिकोट्यधिकद्वयब्जसंख्यकानि (२८७९३८५३९५ ) दलिकानि चतुनवत्यधिकपञ्चविंशतिशत लक्षणेन किट्टिराशिना विभज्यन्ते, तदा मध्यमदलं लभ्यते, तत्पुनरर्धीकृdate किट्टि शिन्यूनाभ्यां द्वाभ्यां द्विगुणहानिभ्यां द्विकविभाजितपञ्चत्रिंशदधिकविंशतिसहस्रोत्तरद्वाविंशतिलक्षराशिनेत्यर्थः, विभज्यते, तदैकचयदलमेकं लभ्यते । तत् पुनर्द्वाभ्यां द्विगुणहानिभ्यां चतुर्दशाधिकत्रिशतोत्तरैकादशसहस्रयुक्त कलक्षरूपाभ्यां ( ११११३१४ ) गुण्यते, गुणने च कृते लोभप्रथमसंग्रह किट्टिप्रथमा - ऽवान्तरकिट्टौ दीयमानं दलं चतुर्दशाधिकत्रिशतोतरेकादशसहत्राधिकैकलक्षमात्रं प्राप्यते ।
न्यास:----
Jain Education International
निर्वर्त्यमानकिट्टि राशिः
पदम् = किट्टितया परिणमनाय गृहीतदलम्
द्विगुणहानिः
=
=
For Private & Personal Use Only
२५९४
२८७९३८५३९५ ५५५६५७
www.jainelibrary.org