________________
अवान्तर किल्पबहुत्वम् ]
किट्टिकरणाद्धाधिकारः
[ १८३
इदन्त्ववधेयम् - यद्यपि मानस्य प्रथमसंग्रह किट्टिगतैकैकाऽवान्तरकिट्टिगत प्रदेशतः क्रोध ि - तीयसंग्रह किट्टिगतैकैकाऽवान्तरकिडौ दलं विशेषहीनं शततमगाथया वक्ष्यते, तथापि मानप्रथमसंग्रह किट्टिसकलाऽवान्तर किट्टितः क्रोधद्वितीयसंग्रह किट्टिनिखिलाऽवान्तरकिट्टीनां विशेषाधिकत्वस्य वक्ष्यमाणत्वाद् मानप्रथम संग्रह किट्टिसकलाऽवान्तरकिट्टिगत सर्वप्रदेशतः क्रोधद्वितीयसंग्रहकिट्टि समस्तावान्तरकिट्टिगत सकलप्रदेशा विशेषाधिका भवन्ति ।
।
सम्प्रत्यवान्तरकिट्ट्यल्पबहुत्वमतिदिदिक्षुराह - 'एव०' इत्यादि, 'एवम्' यथैकैकसंग्रह किट्टि - गतप्रदेशानामल्पबहुत्वं सार्धगाथात्रयेण प्रतिपादितम्, तथैव 'अवान्तर किट्टीनाम् ' एकैकसंग्रह किट्टि - गताऽवान्तरकिट्टीनामल्पबहुत्वं ज्ञातव्यम्, विशेषाभावात् । उक्तं च कषायप्राभृतचूणौ - "जहा पदेसग्गेण विहासिदं, तहा वग्गणग्गेण विहासिदव्वं ।” इति । तथाहि - (१) मानस्य प्रथम संग्रह किट्ट्यामवान्तरकिट्ट्यः स्तोकाः, ताचा - ऽनन्ताः, एकैकस्यां संग्रहकिट्टावनन्तानामवान्तरकिट्टीनां प्राक् प्रतिपादितत्वात् । (२) ततो मानस्य द्वितीयसंग्रह किट्ट्यामवान्तरकिट्टयो विशेषाधिका भवन्ति । आधिक्यं च पल्योपमाऽसंख्येयभागभाजितप्रथमसंग्रह किट्टिगताऽवान्तरकिट्टिमात्रेण राशिना ज्ञातव्यम् । (३) ततो मानस्य तृतीयसंग्रह किट्ट्यामवान्तर किट्टयो विशेषाधिका बोद्धव्याः । (४) ततः क्रोधस्य द्वितीयसंग्रह किट्ट्यामवान्तरकिट्टयो विशेषाधिका बोद्धव्याः । (५) ततः क्रोधस्य तृतीयसंग्रहकियामवान्तरकियो विशेषाधिका वक्तव्याः । ( ६ ) ततो मायायाः प्रथमसंग्रह किट्ट्यामवान्तरकिट्टयो विशेषाधिका अभिधातव्याः । (७) ततो मायाया द्वितीयसंग्रह किट्ट्यामवान्तरकिट्टयो विशेषाधिका अधिगन्तव्याः । ( ८ ) ततो मायायास्तृतीयसंग्रह कियामवान्तरकिट्टयो विशेषाधिका वाच्याः । (९) ततो लोभस्य प्रथमसंग्रहकिट्ट्यामवान्तरकियो विशेषाधिका ज्ञातव्याः । (१०) ततो लोभस्य द्वितीयसंग्रह किट्ट्यामवान्तरकिट्टयो विशेषाधिका अवसेयाः । (११) ततो लोभस्य तृतीयसंग्रह कियामवान्तरकियो विशेषाधिका अभिधेयाः । ( १२ ) ततोऽपि क्रोधस्य प्रथम संग्रह किट्ट्यामवान्तरPage: संख्येयगुणा निगदितव्याः ।
अत्रापि पूर्ववत् प्रथमसंग्रह किट्टिरित्युक्ते किट्टिवेदकस्य प्रथम संग्रह किट्टिर्ज्ञातव्या । किट्टि - कारकस्य तु तृतीयसंग्रह किट्टिबद्धव्या । एवं तृतीयसंग्रह किट्टिरित्युक्ते किट्टवेदकस्य तृतीयसंग्रहकिट्टर्ज्ञातव्या, किट्टिकारकस्य तु प्रथम संग्रह किट्टिर्वोद्धव्या । तेन किट्टिकारकापेक्षयाल्पबहुत्वमित्थं भणनीयम् -
( १ ) मानस्य तृतीयसंग्रह किद्वाववान्तरकिट्टयः स्तोकाः ।
(२) ततो मानस्य द्वितीय संग्रह किद्वाववान्तरकियो विशेषाधिका वर्तन्ते ।
( ३ ) ततो मानस्य प्रथम संग्रह किद्वाववान्तरकियो विशेषाधिका भवन्ति ।
* अत्र वर्गणाशब्देनाऽवान्तरकिट्टयो ग्राह्याः, तासाम् अग्र - समुदाय इति वर्गणाग्रम्, तेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org