________________
संग्रहकिट्टिप्रदेशाल्पबहुत्यम] किट्टिकरणादाधिकारः
[ १८१ कषायदलस्य तत्र प्रक्षिप्तत्वात् । प्रदेशाऽल्पबहुत्वं चेत्थम् (१) मानस्य स्तोकं प्रदेशाग्रम् (२) ततो विशेषाधिकं मायायाः, आधिक्यं चाऽऽवलिकाऽसंख्येयभागभाजितमानप्रदेशमात्रेण राशिना बोद्धव्यम् । (२) ततोऽपि लोभस्य विशेषाधिकम् , आधिक्यं चाऽऽवलिकाऽसंख्येयभागभाजितमायाप्रदेशमाग राशिना निश्चेतव्यम्, प्रकृतिविशेषस्य तथात्वात् । (३) ततः किश्चिन्यूनपञ्चगुणं क्रोधस्य, लस्य मोहनीयसकलदलपश्चाष्टभागप्रमाणत्वात् पूर्वपदस्य त्वेकाष्टभागप्रमाणत्वात् ।।
किट्टिकरणाद्धाप्रथमसमये प्रदेशसत्कर्मानुरूपं प्रदेशाग्रमुत्किरति । (१) तेन मानस्योत्कीर्णप्रदेशाग्र स्तोकं भवति । तच्च कपायचतुष्कसत्कोत्कीर्णदलस्य किश्चिन्न्यूनाष्टभागप्रमाणं भवति । (२) ततो विशेशाधिकं मायायाः, प्रदेशसत्कर्मणो विशेषाधिकत्वात् । तदपि किश्चिन्न्यूनाऽटभागप्रमाणं भवति । (३) ततोऽपि लोभस्य विशेषाधिकमुत्कीर्ण प्रदेशाग्रं भवति, मायातो लोभप्रदेशसत्कर्मणो विशेषाऽधिकत्वात् । तच्च साधिकाष्टभागमात्रं भवति (४) ततः क्रोधस्योत्कीर्णप्रदेशाग्र किश्चिन्यूनपश्चगुणं भवति, लोभसत्कर्मतः क्रोधप्रदेशसत्कर्मणस्तावद्गुणत्वात् । एतानुत्कीर्णप्रदेशान् पल्योपमाऽसंख्येयभागेन विभज्य बहुभागप्रमाणदलं पूर्वापूर्वस्पर्धकेषु निक्षिप्यैकभागप्रमितदलं संज्वलनचतुष्ककिट्टितया परिमणयति । तत्र संज्वलनचतुष्ककिट्टितया परिणमनाय गृहीतसकलदलस्य किंचिन्न्यूनाऽष्टभागप्रमाणं दलं मानकिट्टितया परिणमनाय गृह्णाति, तच्च स्तोकम् । ततो विशेषाधिकं दलं मायाकिट्टितया परिणमनाय गृह्णाति, ततोऽपि संज्वलनचतुककिट्टितया परिणमनाय गृहीतसकलदलस्य किश्चिन्यूनाष्टभागप्रमाणं भवति । ततो विशेषाधिक लोभकिट्टितया परिणमनाय गृह्णाति । तच्च संज्वलनचतुष्ककिट्टितया परिणमनाय गृहीतसकलदलस्य साधिकाष्टभागप्रमितं भवति । ततः क्रोधकिट्टितया परिणमनाय संख्येयगुणं दलं गृह्णाति । तच्च संज्वलनचतुष्ककिट्टितया परिणमनाय गृहीतसकलदलस्य किञ्चिन्न्यूनपश्चाष्टभागमात्रं भवति । . अथ मानकिट्टितया परिणमनाय गृहीतदलस्य प्रथमादिभेदेन तिस्रः संग्रहकिट्टीनिवर्तयते । तत्र मानस्य तृतीयसंग्रहकिट्टौ स्तोकं दलं ददाति, तस्यास्तीवाऽनुभागकत्वात् । ततो विशेषाधिकं द्वितीयसंग्रहकिट्टी ददाति, मन्दानुभावकत्वात् । ततो विशेषाधिकं प्रथमसंग्रहकिट्टो ददाति, मन्दतराऽनुभागकत्वात् । एवं मानकिट्टितया परिणमनाय गृहीतदलस्य विभागत्रये विभजनाद् मानकिट्टितया परिणमनाय गृहीतदलस्याऽऽसन्नत्रिभागप्रमाणं दलं प्रत्येकं मानसंग्रहकिट्टी ददाति । इत्थं कषायचतुष्ककिट्टितया परिणमनाय गृहीतसकलदलस्याऽऽसन्नचतुर्विंशतिभागप्रमाणं दलं मानस्यैकैकसंग्रहकिट्टी दीयते ।
सम्प्रतीदमेव त्रैराशिकेन साध्यते । तथाहि-यदि संज्वलनचतुष्ककिट्टितया परिणमनाय गृहीतसकलदलस्य किश्चिन्यूनाष्टभागप्रमाणं दलं मानकिट्टितया परिणमनाय गृहीत्वा संग्रहकिट्टित्रये ददाति, तबैकस्यां संग्रहकिट्टी संज्वलनचतुष्ककिट्टितया परिणमनाय गृहीत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org