________________
संग्रह किट्टिप्रदेशाल्पबहुत्वम् ]
किट्टिकरणाद्धाधिकारः
[ १७९
वेदनात् । किट्टिकारकस्य त्वनुभागमाश्रित्य तृतीया ज्ञातव्या, तंत्र प्रभूततमाऽनुभागस्य सत्त्वात् । एवं तृतीयसंग्रहकिट्टिरित्युक्ते किट्टवेदकस्यैव तृतीयसंग्रह किट्टर्ज्ञातव्या, मन्दतमाऽनुभागस्य पश्चाद् वेदनात्, किट्टिकारकस्य तु सैवाऽनुभागमाश्रित्य प्रथमा बोद्धव्या, मन्दतमनुभागसद्भावात् ।
( २ ) ' तत्तो' इत्यादि, 'तेभ्यः' मानप्रथम संग्रह किट्टिगतप्रदेशेभ्यो मानस्य द्वितीयस्यां विशेष विद्यन्ते, तीव्राऽनुभागविशिष्टप्रदेशाग्रतो मन्दानुभागविशिष्टप्रदेशाग्रस्य विशेषाधिकत्वे विरोधाभावात् । आधिक्यं च पल्योपमाऽसंख्येय भागभाजितप्रथम संग्रह किट्टिप्रदेशराशिना ज्ञातव्यम्, मानस्य प्रथम संग्रह किट्टिगत प्रदेशराशिं पल्योपमाऽसंख्येयभागेन विभज्य लब्धैकभागेनाऽधिकाः प्रदेशा मानस्य द्वितीयसंग्रहकट्टौ भवन्तीत्यर्थः ।
( ३ ) 'तो' इत्यादि, 'ततः ' मानस्य द्वितीयसंग्रह किट्टिगत प्रदेशेभ्यः 'तृतीयायां' संज्वलनमानस्य तृतीयसंग्रह किट्टी 'अधिकाः ' विशेषाधिकाः प्रदेशा भवन्ति । अधिकत्वं च पल्योपमा - संख्ये भागभाजितमानद्वितीय संग्रह किट्टि प्रदेशराशिना बोद्धव्यम् ।
( ४ ) 'तो' इत्यादि, ततः 'क्रोधस्य' संज्वलनक्रोधस्य 'द्वितीयस्यां ' द्वितीय संग्रह किडौ 'अभ्यधिकाः ' विशेषाधिकाः प्रदेशा भवन्ति ।
( ५ ) 'तो' इत्यादि, 'ततः क्रोधस्य द्वितीयसंग्रह किट्टिगतसकलप्रदेशतः 'तृतीयस्यां ' तृतीयसंग्रह प्रदेशाः 'अधिका' विशेषाधिका भवन्ति ।
'तो' इत्यादि, ततो मायायास्तिसृषु प्रथमद्वितीयतृतीयलक्षणासु संग्रहकिट्टिषु ' क्रमात् ' क्रमेण 'अधिका' विशेषाधिकाः प्रदेशा भवन्ति ।
अयं भावः- ( ६ ) संज्वलनक्रोधस्य तृतीयसंग्रह किट्टिगत सकलप्रदेशतः संज्वलनमायायाः प्रथमसंग्रहकट्टौ प्रदेशा विशेषाधिका भवन्ति ।
( ७ ) ततः संज्वलनमायाया द्वितीयसंग्रह किडौ विशेषाधिकाः प्रदेशास्तिष्ठन्ति । ( ८ ) ततोऽपि संज्वलनमायायास्तृतीयसंग्रहकिद्वौ विशेषाधिकाः प्रदेशा वर्तन्ते
'तो इत्यादि, 'ततः' मायायास्तृतीयसंग्रह किट्टिगतसर्वप्रदेशतः 'लोभस्य' 'तिसृषु' प्रथमद्वितीयतृतीयरूपासु संग्रह किट्टिषु क्रमेण विशेषाधिकाः प्रदेशा भवन्ति ।
एतदुक्तं भवति - ( ९ ) मायायास्तृतीयसंग्रह किट्टिगत प्रदेशाग्रतो लोभस्य प्रथम संग्रह - ट्टिगत समस्तप्रदेशा विशेषाधिका भवन्ति ।
(१०) ततोऽपि लोभस्य द्वितीयसंग्रह किट्टौ प्रदेशा विशेषाधिकास्तिष्ठन्ति । (११) ततोsपि लोभस्य तृतीयसंग्रह किडौ प्रदेशा विशेषाधिका भवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org