SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ १७८ ] खवगसेढी [ गाथा - ९४-९७ अथ द्वादशसंग्रह किट्टीनां प्रदेशाऽल्पबहुत्वमवान्तरकिट्टयल्पबहुत्वं च विभणिपुराह— अह संगहकिट्टीणं पएसअप्पाबहुत्तं । माणस्स पढमसंगहकिट्टीअ पसगा थोवा ॥ ९४ ॥ ( उपगीतिः ) तत्तो बीयाए उ विसेस हि होन्ति माणस्स । तो तहआए अहिआ तो कोहस्स बिझ्याअ अब्भहिआ || १५ || ( उद्गीतिः) तो तइआए अहिआ तो मायाएऽ हि कमा तीसु । तो लोस्स कमेणं ती विसेसाहिआ तत्तो ॥ ९६ ॥ कोहस्स पढमसंगहकिट्टीए होंति संखगुणा । एवमवंतर किट्टीणऽप्पा बहुअं मुणेयव्वं ॥ ९७॥ (उपगीतिः) अथ संग्रह किट्टीनां प्रदेशाल्पबहुत्वं तु । मानस्य प्रथम संग्रह किट्टौ प्रदेशाः स्तोकाः || ९४ || तेभ्यो द्वितीयस्यां तु विशेषाधिका भवन्ति मानस्य । ततस्तृतीयायामधिकास्ततः क्रोधस्य द्वितीयस्यामभ्यधिकाः || ९५|| ततस्तृतीयस्यामधिकास्ततो मायाया अधिकाः क्रमात तिसृषु । ततो लोभस्य क्रमेण तिसृषु विशेषाधिकास्तेभ्यः || ९६ || क्रोधस्य प्रथम संग्रह किट्टौ भवन्ति संख्यगुणाः । एवमवान्तरकिट्टी नामल्पबहुत्वं ज्ञातव्यम् ||१७|| इति पदसंस्कारः | 'अह' इत्यादि, अथशब्दः प्रकरणान्तरसूचकः, किट्ट्यन्तराणि भणितानि, सम्प्रति प्रदेशापबहुत्वं भणना-वसर इति प्रकरणान्तरं सूचयति । 'संग्रह किट्टीनां' द्वादशसंग्रह किट्टीनां 'प्रदेशाल्पबहुत्वं, प्रदेशविषयकाऽल्पबहुत्वं तु भण्यत इति शेषः । अथ प्रतिज्ञाताऽल्पबहुत्वं भणति - 'माणस्स' इत्यादि, 'मानस्य, संज्वलनमानस्य प्रथमसंग्रह 'पसगा' त्ति "स्वार्थे कश्च वा ( सिद्धहेम० ८-२-१६४ ) इति प्राकृतलक्षणेन स्वार्थे कप्रत्ययः, प्रदेशाः स्तोका भवन्ति । अत्र प्रभूताऽनुभागका संग्रहकिट्टिः प्रथमा, ततो मन्दानुभागका द्वितीया, ततोऽपि मन्दतराऽनुभागका संग्रहकिट्टिस्तृतीयाऽस्ति । तेनाऽत्र प्रथम संग्रह - कट्टिरित्युक्ते वक्ष्यमाणस्य किट्टिवेदकस्य प्रथम संग्रह किद्धिर्ज्ञातव्या, वेदकस्य प्रथमं तीव्रानुभाग * यद्यपि "कर्मजा तृचा च" ( सिद्धम० ३-१-८३ ) इति सूत्रेण कर्मषष्ठीसमासो निषिध्यते, तथापि वेद्यवेदकभावाख्यसम्बन्धविवक्षायां किट्टिवेदकः, निर्वर्त्यनिर्वर्तकभावाख्यसम्बन्धविवक्षायां च किट्टि - कारक इति षष्ठ्ययत्नाच्छेषे" (सिद्धम० ३-१-७६ ) इति सूत्रेण षष्ठीसमासो न विरुध्यते । अथवा याजकादेराकृतिगणत्वात् कर्मषष्ठीसमासे ऽपि न काचित् क्षतिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy