________________
१६६ ]
खवगसेढी
[ गाथा-११-१३ ततोऽपि क्रोधस्य प्रथमसंग्रहकिट्टयन्तरमनन्तगुणं भवति, क्रोधस्य प्रथमसंग्रहकिट्टिसत्कचरमाऽवान्तरकिट्टिगतरसाऽविभागा येन गुणकारेण गुणिताः क्रोधस्य द्वितीयसंग्रहकिट्टिसत्कप्रथमाऽवान्तरकिट्टिगतरसाऽविभागा भवन्ति, स गुणकारः क्रोधप्रथमसंग्रहकिट्टयन्तरं निगद्यते. तच्च पूर्वतोऽनन्तगुणमित्यर्थः। ततोऽपि क्रोधस्य द्वितीयसंग्रहकिट्टयन्तरमनन्तगुणं भवति क्रोधस्य द्वितीयसंग्रहकिट्टिसत्कचरमाऽवान्तर्राट्टिगतरसाऽविभागा येन गुणकारेण गणिताः क्रोधस्य तृतीयसंग्रहकिट्टिसत्कप्रथमाऽवान्तरकिट्टिगतरसाऽविभागा भवन्ति, स गणकारः क्रोधस्य द्वितीयसंग्रहकिदृयन्तरमभिधीयते, तच्च पूर्वपदतोऽनन्तगुणं भवतीत्यर्थः । उक्तं च कषायप्राभृतचूर्णी- "कोहस्स पढमसंगहकिट्टी-अंतरमणंतगुणं, विदियसंगहकिट्टीअंतरमणंगुण।" इति ।
ततः क्रोधस्य तृतीयसंग्रहकिट्टयन्तरमनन्तगुणम्, अथ क्रोधचरमावान्तरकिट्टि-लोभप्रथमाऽपूर्वस्पर्धकप्रथमवर्गणाऽन्तरमनन्तगुणम् । उक्तं च कषायप्राभृतचूर्णी-"तदियसंगहकिट्टीअंतरमण तगुण, कोधस्स चरिमादो किट्टीदो लोभस्स अपुव्वफद्दयाणमादिवग्गणाए अंतरमणतगुण।" इति । व्याख्यानं तु लोमतृतीयसंग्रहकिट्टिवत् समाधानत्रिकमाश्रित्य कर्तव्यम्, नवरं लोभस्थाने क्रोधो वक्तव्यः, मायायाश्च स्थाने लोभाऽपूर्वस्पर्धकप्रथमवर्गणा कथनीया । तथाहिक्रोधस्य तृतीयसंग्रहकिट्टयन्तरमित्यनेन क्रोधस्य द्वितीयसंग्रहकिट्टिसत्कचरमा-ऽवान्तरकिट्टिगतरसाऽविभागा येन गुणकारेण गुणिताः क्रोधस्य तृतीयसंग्रहकिट्टिसत्कचरमाऽवान्तरकिट्टिगतरसाऽविभागा भवन्ति, स गुणकारो ग्राह्यः। स च क्रोधस्य द्वितीयसंग्रहकिट्टयन्तरतो-ऽनन्तगणां भवति, ततोऽपि क्रोधस्य तृतीयसंग्रहकिट्टिसत्कचरमावान्तरकिट्टिगतरसाऽविभागा येन गुणकारेण गुणिता लोभस्याऽपूर्वस्पर्धकप्रथमवर्गणागतरसाऽविभागा भवन्ति, तद्गुणकाररूपं क्रोधततीयसंग्रहकिट्टिसत्कचरमा-ऽवान्तरकिट्टि-लोभा- पूर्वस्पर्धकप्रथमवर्गणा-ऽन्तरमनन्तगुणं भवतीति प्रथमविकल्पः । __ प्रथमसमाधानमाश्रित्या-ऽसत्कल्पनया स्थापना
किट्टयन्तरा-किट्टयनुभाल्पबहुत्व- गाल्पबहुत्व
क्रमाङ्कः । क्रमाङ्कः लोभप्रथमसंग्रहकिट्टिप्रथमावान्तरकिट्टि
तस्यां रसाविभागाः 'स' " , , , प्रथमावान्तरकिट्टयन्तरम्
卐२ "" ", द्वितीयावान्तरकितिः
तस्यां रसाविभागाः २ स ,, ,, द्वितीयावान्तरकिट्टयन्तरम् | 0४
प्रलोभप्रथमसंग्रहकिट्टिसत्कप्रथमा-ऽवान्तरकिट्टिगतरसाविभागा येन गुणकारेण गुणिता लोभप्रथमसंग्रहकिट्टिसत्कद्वितीया-ऽवान्तरकिट्टिगतरसाविभागा भवन्ति, स गुणकारो लोभप्रथमसंग्रहकिट्टिसत्कप्रथमा-ऽवान्तरकिट्टयन्तरमुच्यते । प्रकृते लोभप्रथमसंग्रहकिट्ट : प्रथमा-ऽवान्तरकिट्टौ रसाविभागा: 'स' इति कल्प्यन्ते, द्वितीयाऽवान्तरकिट्टौ तु '२ स' इति । अथ द्विकेन गुणिताः 'स' रसाविभागाः (२स' भवन्ति, तेन प्रथमा-ऽवान्तरकिट्टयन्तरं द्विकं भवति । एवं द्वितीयाद्यवान्तरकिट्रयन्तराणि दर्शयितव्यानि ।
द्विकं चा-ऽत्रा-ऽनन्तत्वेन कल्पितम् । तेन प्रथमा-ऽवान्तरकिट्टयन्तरतो द्वितीया-ऽवान्तरकिट्टपन्तरस्य द्विगुणत्वाद् द्वितीया-ऽवान्तरकिट्टयन्तरमनन्तगुणं भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org..