________________
किट्टवनुभागाल्पबहुत्वम् ]
[ १५५
चरमावान्तरकिट्टौ रसाऽविभागा द्विचरमावान्तर किट्टितोऽनन्तगुणा भवन्तीत्यर्थः । ' एवं ' इत्यादि, ' एवं ' एवंशब्दः सादृश्यार्थकः, यथा लोभस्य तिसृणां संग्रह किट्टीनामवान्तर किट्टिषु रसाऽविभागाः प्ररूपिताः, तथैवेत्यर्थः मायायाः 'तिसृणां प्रथम- द्वितीय तृतीयरूपाणां संग्रह किड्डीनां किट्टिषु' अवान्तर किट्टिष्वनन्तगुणनया रसाऽविभागा वक्तव्याः । चकारः समुच्चये । एतदुक्तं भवति संज्वलन - लोभस्य तृतीयसंग्रह किट्टिसत्कचर माऽवान्तरकिट्टिगतरसाऽविभागतो मायायाः प्रथमसंग्रह किट्टिसत्कप्रथमाऽवान्तरकिट्टौ रसाऽविभागा अनन्तगुणा भवन्ति । ततोऽपि मायायाः प्रथमसंग्रह किट्टि - सत्कद्वितीयाऽवान्तरविट्टौ रसाऽविभागा अनन्तगुणा भवन्ति । एवं तावद्वक्तव्याः, यावन्मायायाः प्रथम संग्रह किट्टिसत्कचरमाऽवान्तरविट्टौं रसाऽविभागा द्विचरमाऽवान्तरकिट्टितोऽनन्तगुणा भवन्ति । मायायाः प्रथम संग्रह किट्टिसत्कचरमावान्तर किट्टिगतरसाऽविभागतो मायाया द्वितीयसंग्रह किट्टि सत्कप्रथमाऽवान्तरकिट्टौ रसाऽविभागा अनन्तगुणा भवन्ति ततोऽपि मायाया द्वितीय संग्रह - किट्टिसत्कायां द्वितीयाऽवान्तर विद्यावनन्तगुणा भवन्ति, ततो मायाया द्वितीयसंग्रह किट्टि - सत्कायां तृतीयाऽवान्तरविद्वावनन्तगुणा रसाऽविभागा भवन्ति । एवंक्रमेण तावद्वक्तव्याः, यावद् मायाया द्वितीयसंग्रह किट्टिसत्कद्विचरमा ऽवान्तर किट्टितश्चरमावान्तरविद्वौ रसाऽविभागा अनन्तगुणा भवन्ति । मायाया द्वितीयसंग्रह किट्टिसत्कचरमा - ऽवान्तर किट्टिगत रसाऽविभागतोऽनन्तगुणा रसाऽविभागा मायायास्तृतीयसंग्रह किट्टिसत्कायां प्रथमावान्तरविद्वौ तिष्ठन्ति, ततोऽपि द्वितीयाsवान्तरविट्टावनन्तगुणा रसाविभागा वर्तन्ते, एवमनन्तगुणक्रमेण तावद्वक्तव्याः यावत् तृतीयसंग्रह किट्टिसत्कचरमाऽवान्तरकिट्टिः ।
किट्टिकरणाद्धाधिकारः
'तत्तो' इत्यादि, 'तेभ्यो' मायायास्तृतीयसंग्रह किट्टिसत्कचर माऽवान्तर किट्टिगतरसाऽविभागेभ्यो 'मानक्रोधयोः ' संज्वलनमानक्रोधयोः 'तिसृणां' संग्रह किट्टित्रयस्य अवान्तर किट्टिगता रसाऽविभागाश्च क्रमशस्त्वनन्तगुणास्तावद्भवन्ति यावत् 'क्रोधोत्कृष्टायां' क्रोध तृतीय संग्रह किट्टि - सत्कचरमावान्तरकिट्टौ रसाऽविभागाः । तथाहि मायायास्तृतीयसंग्रह किट्टिसत्कचरमावान्तर किट्टिगतरसाऽविभागतो मानस्य प्रथम संग्रह किट्टिसत्कप्रथमावान्तर किट्टौ रसाऽविभागा अनन्तगुणा अवतिष्ठन्ते । ततोऽपि मानस्य प्रथमसंग्रह किट्टिसत्कद्वितीया ऽवान्तर किड्डावनन्तगुणा रसाविभागा भवन्ति, एवं क्रमेण तावद्वक्तव्याः, यावत् प्रथमसंग्रह किट्टिसत्कचरमावान्तर किट्टिगतरसाविभागाः ।
Jain Education International
,
मानस्य प्रथम संग्रह किट्टिसत्कचरमा-ज्वान्तरकिट्टितो मानस्य द्वितीयसंग्रह किट्टिसत्कप्रथमा - Saान्तर किट्टौ रसाविभागा अनन्तगुणा भवन्ति । ततोऽपि द्वितीयसंग्रह किट्टिसत्कद्वितीयाऽवान्तरकिट्टौ रसाऽविभागा अनन्तगुणा वर्तन्ते । एवमनन्तगुणक्रमेण तावद्वक्तव्याः, यावन्मानस्य द्वितीय संग्रह किट्टिसत्कचरमा-ऽवान्तर किट्टिगतरसा ऽविभागाः ।
For Private & Personal Use Only
www.jainelibrary.org