________________
बन्धोदयौ ] यथाप्रवृत्तकरणाधिकारः
[१६ च्छति । उक्तं च कषायप्राभतचूर्णी-"थोणगिडितियमसाद-मिच्छत-बारसकसाय-अरदि-सोग-इत्थिवेद-णवुसयवेद-सव्वाणि चेव आउगाणि परियत्तमाणियाओ णामा
ओ असुहाओ सव्वाओ चेव मणसगइ-ओरालियसरीरंगोवंग-वज्जरिसहसंघडणमणसगइपाओग्गाणुपुव्वोआदावुज्जोवणामाओ च सुहाओ णीचागोदं च एदाणि कम्माणि बंधेण वोच्छिण्णाणि।"अत्र"परियत्तमाणियानो णामाओ असुहायो सव्वाओ येव" इत्यनेन नरकतिर्यगगति-जातिचतुष्कायवर्जसंस्थानपञ्चकायवर्जसंहननपञ्चक-नरकतिर्यगानुपूर्वी-कुखगतिस्थावर-सूक्ष्मा-ऽपर्याप्त-साधारणा-ऽस्थिराऽशुभ-दुर्भग-दुःस्वरा-ऽनादेया-ऽयशःकीर्तिरूपाः प्रकृतयो ग्राह्याः, तासां परावर्तमानाऽशुमनामकर्मत्वात् ।।
अथ स्थितिबन्धोऽभिधीयते-सप्तानामपि कर्मणां स्थितिबन्धोऽन्तःसागरोपमकोटाकोटिप्रमाणो भवति, स च सत्तागत्तस्थितितः संख्यातगुणहीनो भवति । तथा प्रत्यन्तमुहूर्त पूर्वपूर्वत उत्तरोत्तरस्थितिवन्धः पल्योपमसंख्येयभागेन हीनो हीनतरो जायते । इदमुक्तं भवति-यथाप्रवृतकरणप्रथमसमये यः स्थितिबन्धः प्रारभ्यते, सोऽन्तमुहूर्त यावत् प्रवर्तते । तस्मिन् पूर्णेऽन्यः पल्योपमसंख्येयभागेन हीनः स्थितिबन्धः प्रारभ्यते, सोऽप्यन्तमु हूत यावत् प्रवर्तते । एवमग्रेऽपि प्रत्यन्तमुहूर्त पल्योपमसंख्येयभागेन हीनो हीनतरः स्थितिबन्धः प्रवर्तते ।
___ अथाऽनुभागबन्धो विविच्यते शुभप्रकृतीनां चतुःस्थानकमशुमानां प्रकृतीनां पुनढिस्थानकमनुभाग बध्नाति, तमपि प्रतिसमयं शुमानामनन्तगुणवृद्धमशुभानां चाऽनन्तगुणहीनं बध्नाति ।
सम्प्रति प्रदेशबन्धोऽभिधीयते-उत्कृष्टयोगी निद्राद्विक-हास्य-रति-भय-जुगुप्सा-देवद्विक-वैक्रियद्विक-प्रथमसंस्थान-शुभखगति-सुभगत्रिकरूपसप्तदशप्रकृतीनामुत्कृष्टं प्रदेशाग्रं बध्नाति । शेषाणां चत्वारिंशत्प्रकृतीनामनुत्कृष्टमेव प्रदेशं बध्नाति । अत्र कारणमस्मत्कृतोपशमनाकरणगतप्रथमौपशमिकसम्यक्त्वटीकातोऽवसेयम् । नामकर्मण एकोनत्रिंशत्प्रकृत्यात्मकं बन्धस्थानं तथा त्रिंशत्प्रकृत्यात्मकं बन्धस्थानं बध्नन्नुत्कृष्टयोगी क्रमेण जिननाम्न आहारकद्विकस्य वोत्कृष्टप्रदेशाग्रं बध्नाति, तदानीं शेषाणां नामप्रकृतीनामनुत्कृष्टप्रदेशाग्रं बध्नाति । अनुत्कृष्टयोगी तु निद्रादीनां सर्वप्रकृतीनामनुत्कृष्टप्रदेशाग्रं बध्नाति ।
अथ प्रकृत्युदयो निरूप्यतेमूलप्रकृत्युदयः-अष्टानामपि मूलकर्मणामुदयो विद्यते ।
उत्तरप्रकृत्युदयः-ज्ञानावरणपञ्चकं दर्शनावरणचतुष्कमन्यतरदिनीयं संज्वलनक्रोधादिष्वन्यतमः कषायोऽन्यतमो वेदोऽन्यतरं युगलमन्तरायपञ्चकं मनुष्यायुरुच्चैर्गोत्रं चेति नामवर्जशेषक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org