________________
यथाप्रवृत्तकरणाधिकारः
वेदादयः ]
[१७ श्रेणि कुतो न प्रतिपद्यते ? इति वाच्यम् , सिद्धान्तेऽवधिज्ञानोपयोगेन वाऽवधिदर्शनोपयोगेन वा मनःपर्यायज्ञानोपयोगेन वा क्षपकश्रेणिप्रतिपत्तरस्वीकारात् ।
'इगकसाये' त्ति 'एककषाये' अनन्तानुवन्धिनां क्षीणत्वाद् अप्रमत्तगुणस्थानके च प्रत्याख्यानावरणादीनामुदयविरहात् संज्वलनक्रोध-मान-माया-लोभानाम् एकस्मिन् अन्यतमे कपाये वर्तते क्षपकश्रेगेरारोहकः । उक्तं च कषायप्राभृतचूर्णी-कसाये त्ति विहासा-अण्णदरो कसायो।" इति ॥९॥
सम्प्रति यथाप्रवृत्त करणं कुर्वतो जीवस्य वेदादिकं प्राह
पुरिसाईणं वे अण्णयरम्म य विसुज्झयरसुक्काए। पयइठिइरसपअसा पडुच्च णेयाणि बन्धुदयसंताई॥१०॥ (आर्यागोतिः) पुरुषादीनां वेदेऽन्यतरस्मिंश्च विशुद्धतरशुक्लायाम् ।
प्रकृति-स्थिति-रस-प्रदेशान् प्रतीत्य ज्ञेयानि बन्धोदयसत्त्वानि ॥१०॥ इति पदसंस्कारः । 'पुरिसाईणं' इत्यादि, 'वई' इति पूर्वगाथोक्तपदमत्राऽप्यनुवर्तते, तेन 'पुरुषादीनां' पुरुषवेद-स्त्रीवेद-नपुंसकवेदानामन्यतरस्मिन् वेदे वर्तते क्षपकश्रेणेः प्रतिपत्ता । यदुक्तं कषायप्राभूतचूर्णी- 'वेदो य को भवे त्ति विहासा अण्णदरो वेओ।” इति । चकारः समुच्चयार्थो भिन्नक्रमश्च, स चोतरत्र योज्यः। 'विशुद्धतरशुक्लायां च पूर्वपूर्वसमयभाविशुक्ललेश्याऽपेक्षयोत्तरोत्तरसमये विशुद्धतरायां शुक्ललेश्यायां वर्तते क्षपकणेः समारोहकः, अनुभागापेक्षया कषायाणामुदयस्याऽनन्तगुणहीनत्वेन शुभलेश्याया हानेरवस्थानस्य चाऽसम्भवात् । उक्तं च कषायप्राभृतचूर्णी-"लेस्सा त्ति विहासा णियमा सुक्कलेसा णियमा वड्ढमाणलेसा।” इति ।
अथ यथाप्रवृत्तकरणं विदधानम्य बन्धादिकं सूचपति-पयई' इत्यादि प्रकृति-स्थिति-रसप्रदेशान् 'प्रतीत्यसमाश्रित्य बन्धुदयसन्ताई' ति,इह सदिति निर्देशस्य भावप्रधानत्वात् सच्छब्देन सचं व्याख्येयम् । बन्धोदयसचानि 'ज्ञेयानि' स्वयमेवाभ्यूह्यानि, सुगमत्वात् , पाठकेभ्यो वा बोद्धव्यानि । एतदुक्तं भवति-यथाप्रवृत्तकरणं कुर्वतो जीवस्य प्रकृतिवन्धः स्थितिबन्धो रसबन्धः प्रदेशबन्धश्च ज्ञातव्यः, एवं प्रकृत्युदयः स्थित्युदयो रसोदयः प्रदेशोदयश्च बोद्धव्यः, तथा प्रकृतिसत्ता स्थितिसत्ताऽनुभागसत्ता प्रदेशसत्ता चाऽवसेया । ___अथ विनेयबुद्धिवैशधार्थ विस्तरेण प्रकृतिबन्धादयः प्रतिपाद्यन्ते
तत्रादौ तावद् मूलप्रकृतिबन्धः-क्षपकश्रेणि प्रतिपद्यमान आयुर्वर्जशेषाणि सप्तैव कर्माणि बध्नाति, क्षपकश्रेण्यामायुर्वन्धाऽसम्भवाद् विशुद्धिप्रकर्षाच्च ।
अथोत्तरप्रकृतिवन्धः-मतिज्ञानावरण-श्रुतज्ञानावरणा-ऽवधिज्ञानावरण--मनःपर्यवज्ञानावरण केवलज्ञानावरणरूपं ज्ञानावरणप्रकृतिपश्चकं चक्षुर्दर्शनावरणा-ऽचक्षुर्दर्शनावरणा-ऽवधिदर्शनावरण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org