SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ I नमः श्रीवीतरागाय [ पीठिका ] स्वस्ति श्रीनिलयं सुधामपि सुधासारं महः सार्वगं शश्वद्दाहकशक्तियुक्तिमभितः सज्जातवेदःस्थितम् । स्फोर्यत्सौर्यमयं महोमणिमयं तत्त्वं नभोमण्डले नित्यज्ञानमनादिसिद्धमखिलं बोधस्वरूपं परम् ॥ १ ॥ प्रणम्य भारती पादपद्मद्वन्द्वं महोदयम् । यज्जाड्यैकतमः स्तोमभानुबिम्बायितं सदा ॥ २॥ आचार्याः शुभचन्द्रास्ते क्व चाल्पमतिकोऽप्यहम् | भानोः परं किमु स्थातुं खद्योतैः शक्यते न हि ॥ ३ ॥ परित्यज्यान्य सिद्धान्तं दिगम्बरमताशयात् । ज्ञानार्णवस्य शास्त्रस्य कुर्वे वृत्तिं समासतः ॥ ४ ॥ बुधैरनुग्रहीतव्यः सापराधो गुणोत्तमैः । यतः शास्त्रैकदृश्वानः कृपापारीणबुद्धयः ।। ५ ।। शश्वत्स्याहिजलालदीनपुरतः प्राप्तप्रतिष्ठोदयः श्रीमन्मङ्गलवंशशारदशशिर्विश्वोपकारोद्यतः । नाम्ना कृष्ण इति प्रसिद्धिरभवत् सत्क्षात्रधर्मोन्नतेस्तन्मन्त्री श्वर टोडरो गुणयुतः सर्वाधिकारोद्यतः ॥ ६ ॥ श्रीमत्तोडरसाहपुत्रनिपुणः सद्दानचिन्तामणिः श्रीमच्छ्री ऋषिदासधर्मनिपुणः प्राप्तोन्नतिः स्वश्रिया । तेनाहं समवादिवादिनिपुणो न्यायाद्यलीलाह्वयः श्रोतुं वृत्तिमतः परं सुविषयां ज्ञानार्णवस्य स्फुटम् ॥ ७ ॥ इह हि चिकीर्षितान्तरायापायनिमित्तं शास्त्र समाप्तये च स्वेष्टदेवतानमस्कारलक्षणं मङ्गलं दर्शयति । तत्र मनोवाक्कायसाधारणस्यैव नमस्कारस्य परमात्मनो योग्यत्वात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy