SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ ६९४ ज्ञानार्णवः [ ३९.५९ 2207) आत्यन्तिकं निराबाधमत्यक्षं स्वस्वभावजम् । यत्सुखं देवदेवस्य तद्वक्तुं केन पार्यते ।।५९ 2208) तथाप्युदेशतः किंचित् ब्रवीमि सुखलक्षणम् । निष्ठितार्थस्य सिद्धस्य सर्वद्वन्द्वातिवर्तिनः ॥६० 2209) यद्देवमनुजाः सर्वे सौख्यमक्षार्थसंभवम् । निर्विशन्ति निराबाधं सर्वाक्षप्रीणनक्षमम् ।।६१ 2210) सर्वेणातीतकालेन यच्च भुक्तं महर्द्धिकम् । भाविनो यच्च भोक्ष्यन्ते स्वादिष्टं स्वान्तरजकम् ॥६२ 2211) अनन्तगुणितं तस्मादत्यक्षं स्वस्वभावजम् ।। एकस्मिन् समये भुङ्क्ते तत्सुखं परमेश्वरः ।।६३ 2207) आत्यन्तिकं-[ देवदेवस्य सुखं वक्तुं केन पार्यते। कीदृशं तत् । अत्यक्षम् अक्षाणि इन्द्रियाणि अतिक्रम्य वर्तते इति । स्वस्वभावजं स्वप्रकृत्यैवोत्पन्नम् । अन्यत्सुगमम् ।।५९|| ] पुनस्तदेवाह। 2208) तथाप्युदेशतः-तथापि उद्देशतः नाममात्रेण सिद्धस्य किंचित् सुखलक्षणं ब्रवीमि । कीदृशस्य । निष्ठितार्थस्य कृतार्थस्य । पुनः कीदृशस्य । सर्वद्वन्द्वातिवर्तिनः सर्वक्लेशरहितस्य । इति सूत्रार्थः ।।६०।। अथ कीदृशं तदाह । ____ 2209) यदेव-सर्वे देवाः, मनुजा मनुष्याः, अक्षार्थसंभवं सौख्यं निर्विशन्ति भुञ्जते । शेषं सुगमम् । ॥६१॥ पुनस्तदेवाह । 2210) सर्वेण-भाविनः अनागतकाले। च पुनः । ये च भोक्ष्यन्ते यत् सुखम् । शेषं सुगमम् । इति सूत्रार्थः ।।६२।। अथ तद्विशेषमाह । "2211) अनन्तगुणितं-तस्मात् त्रैकालिकविषयिकसौख्यात् अनन्तगुणितं तत्सुखं परमेश्वरः भुङ्क्ते एकस्मिन् समये । सुगमम् । इति सूत्रार्थः ॥६३।। अथ ज्ञानस्वरूपमाह । उस देवाधिदेव सिद्ध परमात्माको जो अविनश्वर, निर्बाध, अतीन्द्रिय व स्वाभाविक आत्मिक सुख प्राप्त है उसका वर्णन करने के लिए भला कौन समर्थ है ? कोई भी नहीं-वह उसका सुख अवर्णनीय है ॥५९।। ___ फिर भी मैं कृतकृत्य और सम्पूर्ण क्लेशोंसे मुक्त हुए उस सिद्ध परमात्माके सुखके स्वरूपका निर्देशमात्रसे कुछ कथन करता हूँ॥६॥ सब देव और मनुष्य बाधासे रहित एवं सब ही इन्द्रियोंको प्रसन्न करनेवाले जिस इन्द्रियविषयजनित सुखको वर्तमानमें भोग रहे हैं, समस्त अतीत कालमें उन्होंने जिस महती ऋद्धियुक्त सुखको भोगा है, तथा भविष्यमें वे मनको अनुरंजित करनेवाले जिस ३. L T महधिकैः । १. M निषिद्धार्थस्य । २. M T X Y R यदेव मनुजाः, F J यद्देवाः। ४. M N ये च। ५. All others except PN F भोक्ष्यन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy