________________
-१७] ३६. रूपस्थध्यानम्
६४९ 2045) युक्त्या वृषभसेनाद्यैनिधू यासाधु पल्गितम् ।
यस्य सिद्धिः सतां मध्ये लिखिता चन्द्रमण्डले ॥१३॥ तद्यथा2046) अनेकवस्तुसंपूर्ण जगद्यस्य चराचरम् ।
स्फुरत्यविकलं बोधेविशुद्धादर्शमण्डले ॥१४ 2047) स्वभावजमसंदिग्धं निर्दोषं सर्वदोदितम् ।
यस्य विज्ञानमत्यक्षं लोकालोकं विसर्पति ।।१५ 2048) यस्य विज्ञानधर्माशुप्रभाप्रसरपीडिताः ।।
क्षणादेव क्षयं यान्ति खद्योता इव दुर्नयाः ॥१६ 2049) पादपीठीकृताशेषत्रिदशेन्द्रसभाजिरम् ।।
योगिगम्यं जगन्नाथं गुणरत्नमहार्णवम् ।।१७ 2045) युक्त्या वृषभ-वृषभसेनाधराचार्यैः असाधु वल्गितम् असम्यक् चर्चितम् । [युक्त्या निर्धूय खण्डनं विधाय यस्य सिद्धिः कृता । इति सूत्रार्थः ॥१३॥ तद्यथा।]
2046 ) अनेकवस्तु-अविकलबोधशुद्धादर्शमण्डले यस्य योगिनः चराचरं जगत् स्फुरति प्रतिभासते। शेषं सुगमम् । इति सूत्रार्थः ॥१४॥ [पुनस्तदेवाह ।] ___204-7) स्वभावजम्-यस्य विज्ञानं विशिष्टज्ञानम् अत्यक्षम् अतीन्द्रियं लोकालोकं विसपति । कीदृशम् । स्वभावजम् । पुनः । असंदिग्धम् । पुनः कीदृशम् । निर्दोषम् । सर्वदोदितम् । इति सूत्रार्थः ॥१५।। अथ तदेवाह ।
___ 2048) यस्य विज्ञान-दुर्नयाः क्षणादेव क्षयं यान्ति । यस्य विज्ञानधर्माशुप्रभाप्रसरपीडिता विशिष्टज्ञानसूर्यकान्तिसमूहपीडिताः। इवोत्प्रेक्षते। खद्योता इव । इति सूत्रार्थः ॥१६॥ अथ एतदेव
2049) पादपीठीकृत-पादपीठीकृताः अशेषाः त्रिदशेन्द्राः तेषां सभाजिरं सभाङ्गणम् । पुनः कीदृशम् । योगिगम्यम् । शेषं सुगमम् । इति सूत्रार्थः ॥१७॥ पुनः कीदृशं तदाह । वृषभसेन गणधरादिकोंके द्वारा युक्तिपूर्वक दुष्ट जनोंके बकवादको खण्डित करके सत्पुरुषोंके मध्यमें चन्द्रमण्डलपर लिखी गयी है ॥१२-१३॥ वह इस प्रकारसे
जिस सर्वज्ञ परमेश्वरके निर्मल ज्ञानरूप दर्पणके घेरेमें अनेक (अनन्त) वस्तुओंसे परिपूर्ण समस्त चराचर लोक प्रतिभासित होता है, जिसका स्वाभाविक, सन्देहसे रहित, निर्दोष और सर्वदा प्रकाशमान अतीन्द्रिय ज्ञान लोक व अलोकमें व्याप्त है; जिसके विशिष्ट ज्ञानरूप सूर्यकी प्रभा ( तेज ) के विस्तारसे पीड़ित होकर दूषित पक्ष-एकान्तवादीजुगनुओंके समान क्षणभरमें क्षीण हो जाते हैं, जिसने समस्त इन्द्रोंकी सभारूप आंगनको अपने पावोंके रखनेका आसन बना दिया है-जिसके चरण समस्त इन्द्रसमूहसे पूजित हैं, जो योगी जनोंको गम्य है-जिसके स्वरूपको योगी जनोंके सिवाय अन्य कोई जान नहीं सकता
१. PM तद्यथा। २. F बोधो।
८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org