________________
-२१]
३५. पदस्थध्यानम् 1929 ) संचरन्तं दिशामास्ये प्रोच्छलन्तं' नभस्तले ।
छेदयन्तं कलङ्कौघं स्फेटयन्तं भवभ्रमम् ॥१८ 1930 ) नयन्तं परमस्थानं योजयन्तं शिवश्रियम् ।
इति मन्त्राधिपं धीर कुम्भकेन विचिन्तयेत् ॥१९॥ ऽहं । 1931 ) अनन्यशरणः साक्षात्तत्संलीनैकमानसः।
तथा स्मरत्यसौ ध्यानी यथा स्वप्ने ऽपि न स्खलेत् ।।२० 1932 ) इति मत्वा स्थिरीभूतं सर्वावस्थासु सर्वथा ।
नासाग्रे निश्चलं धत्ते यदि वा भ्रलतान्तरे ॥२१
1929) संचरन्तम्-दिशामास्ये मुखे संचरन्तम् । नभःस्थले आकाशे प्रोच्छलन्तम् । कलङ्कौघं कलङ्कसमूहं छेदयन्तम् । भवभ्रमं संसारभ्रान्ति स्फेटयन्तं नाशयन्तम् । इति सूत्रार्थः । ॥१८।। पुनः कीदृशम् ।
1930) नयन्तम्-परमस्थाने नयन्तं प्रापयन्तम् । शिवश्रियं योजयन्तम् । इति मन्त्राधिपं धीरः कुम्भकेन ध्यानेन विचिन्तयेत् । इति सूत्रार्थः ।।१९।। अहम् । पुनः कीदृशम् ।
1931) अनन्यशरण:-असौ ध्यानी तथा स्मरति। कीदृशो ध्यानी। अनन्यशरणः अनन्यचित्तः । साक्षात् तत्संलीनमानसः तत्र संलीनं मानसं यस्य सः । यथा स्वप्ने ऽपि न स्खलेत् न च्युतो भवेत् । इति सूत्रार्थः ।।२०।। पुनराह ।
___1932) इति मत्वा-सर्वावस्थासु आसनाद्यवस्थासु । शेषं सुगमम् । इति सूत्रार्थः ।।२१।। पुनस्तद्विशेषमाह। मान, बालोंमें अवस्थानको प्राप्त करते हुए, ज्योतिषियोंके मण्डल में घूमते हुए, चन्द्रमाके साथ स्पर्धा करते हुए, दिशाओंके मुखमें संचार करते हुए, आकाशतलमें उछलते हुए, कलंकके समूहको छेदते हुए, संसार परिभ्रमणको नष्ट करते हुए, परम पद (मोक्ष) को ले जाते हुए और मोक्षलक्ष्मीसे संयोग कराते हुए, इस स्वरूपमें उक्त मन्त्रराजका कुम्भकस्वरूपसे विचार करना चाहिए ॥१६-१९।।
ध्याता मुनि उक्त मन्त्रराजके सिवाय अन्य किसीको शरण न मानकर, एक मात्र उसीमें मन लगाता हुआ उसका इस प्रकारसे ध्यान करता है कि जिस प्रकार उससे स्वप्नमें भी च्युत नहीं होता है ॥२०॥
इस प्रकार सब ही अवस्थाओंमें व सब प्रकारसे मन्त्रराजको स्थिर मानकर उसे नासिकाके अग्रभागपर अथवा भ्रुकुटियोंके मध्यमें निश्चल स्वरूपसे धारण करना चाहिए।॥२१॥
१. M प्रोच्चलन्तं । २. LS FX R स्फोटयन्तं । ३. J स्थाने । ४. LJ धीरः, F वीरः । ५. M N L अहं T अहीं, X चतुष्कुलं अर्ह । ६. Y स्वप्नेन । ७. M N भ्रूयुगान्तरे, T वाग्भ्रू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org