SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ ज्ञानार्णवः [३४.२१1897 ) चालयन्तं सुरानीकं धुन्वन्तं त्रिदशाचलम् । दारयन्तं घनत्रातं क्षोभयन्तं महार्णवम् ॥२१ 1898 ) वजन्तं भुवनाभोगे संचरन्तं हरिन्मुखे । विसर्पन्तं जगन्नीडे निर्विशन्तं धरीतले ॥२२ 1899 ) उद्धृय तद्रजः शीघ्रं तेन प्रबलवायुना। ततः स्थिरीकृताभ्यासः समीरं शान्तिमानयेत् ॥२३॥ मारुती। 1900 ) वारुण्यां स हि पुण्यात्मा धनांतचितं नमः । इन्द्रायुधतडिद्गर्जि चमत्कारोकुलं स्मरेत् ॥२४ 1897) चालयन्तम्-महार्णवं समुद्रं क्षोभयन्तम् । पुनः किं कुर्वन्तम् । सुरानीकं चालयन्तम् । पुनः किं कुर्वन्तम् । त्रिदशाचलं धुन्वन्तम् । पुनः कीदृशम् । धनवातं मेघसमूहं दारयन्तमिति सूत्रार्थः ।।२१।। पुनः कीदृशं वायुम् । 1898) वजन्तम्-भुवनाभोगे जगद्विस्तारे व्रजन्तम् । हरिन्मुखे दिङ्मुखे संचरन्तम् । पुनः कीदृशम् । जगन्नीडे विश्वगृहे विसर्पन्तम् । धरातले निर्विशन्तम् । इति सूत्रार्थः ॥२२॥ अथोपसंहरति । 1899) उद्धृय-ततः अनन्तरं समीरं वायुं शान्तिम् आनयेत् । कीदृशः । स्थिरीकृताभ्यासः । तेन प्रबलवायुना तद्रजः पापं शीघ्रम् उद्धृय दूरीकृत्य । इति सूत्रार्थः ।।२३।। मारुती भावना। अथ वारुणी भावना। ____1900) वारुण्यां-हि निश्चितं वारुण्यां पुण्यात्मा नभः स्मरेत् । कीदृशम् । धनवातचितं मेघसमूहव्याप्तम् । पुनः कीदृशम् ।* इन्द्रायुधतडिद्गर्जच्चमत्काराकुलम्, इन्द्रायुधम् इन्द्रधनुः, तडित् विद्युत्, तयोः चमत्कारेण आकुलं व्याप्तम् । इति सूत्रार्थः ॥२४॥ पुनरेतदेवाह । विस्तारमें गतिशील, दिशाओंके मुखमें संचार करनेवाली, जगत् रूप घोंसलेके भीतर प्रवेश करनेवाली और पृथिवीतलमें प्रविष्ट हो रही हो। इस प्रकार विचार करता हुआ योगी दृढ अभ्यास पूर्वक उस प्रबल वायुके द्वारा उन भस्म हुए शरीरादिकी धूलिको शीघ्र उड़ाकर तत्पश्चात् उसे शान्त करावे ॥२०-२३।। मारुती धारणा। उस पवित्रात्मा योगीको वारुणी धारणामें मेघसमूहसे व्याप्त और इन्द्रधनुष व बिजलीकी गर्जनासे संयुक्त होकर आश्चर्यचकित करनेवाले आकाशका स्मरण करना चाहिये ||२४|| - १.SJX Y R ध्वनन्तं । २. MJX R त्रिदशालयं। ३.J नीडं। ४.SJX Y R निविशन्तं । ५. धरातलं । ६. Only PM X मारुती । ७. S R घनजाल । ८. All others except PT गर्जच्चम । ९.J चमत्कारी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy