________________
५८६ ज्ञानार्णवः
[३३.१०६1799 ) सप्तभिस्त्रिदशानीकैर्विमानैरङ्गनान्विताः ।
कल्पद्रमगिरीन्द्रेषु रमन्ते विबुधेश्वराः ॥१०६ 1800 ) [ हैस्त्यश्वरथपादातवर्षगन्धर्वनर्तकिं ।
सप्तानीकानि सन्त्यस्यं प्रत्येकं च महत्तराः ॥१०६*१ ] 1801 ) शृङ्गारसारसंपूर्णा लावण्यवनदीर्घिकाः ।
पीनस्तनभराक्रान्ताः पूर्णचन्द्रनिभाननाः ॥१०७ 1802 ) विनीताः कामरूपिण्यो महर्द्धिमहिमान्विताः ।
__ हावभावविलासाढ्या नितम्बभरमन्थराः ।।१०८ 1803 ) मन्ये शृङ्गारसर्वस्वमेकीकृत्य विनिर्मिताः ।
स्वर्गवासविलासिन्यः सन्ति मूर्ता इव श्रियः ॥१०९ 1799) सप्तभिः-विबुवेश्वराः देवेन्द्राः रमन्ते । केषु । कल्पद्रुमगिरीन्द्रेषु । कैः । विमानैः । कीदृशैः । अङ्गनान्वितैः । सप्तभिः अनीकैः । इति सूत्रार्थः ।।१०६॥] अथ सप्त अनीकानि आह ।
1800) हस्त्यश्व-कानि सप्त अनीकानि । हस्ति-अश्व-रथ-पादात-वृष-गन्धर्व-नर्तकि-रूपाणि सप्त अनीकानि सैन्यानि सन्ति । एतेषु प्रत्येकं उत्तरोत्तरं महत्तरं* श्रेष्ठं वर्तते । इति सूत्रार्थः ॥१०६२१॥ ] अथ तासां स्वरूपमाह ।
1801) शृङ्गार-लावण्यवनदीर्घिकाः चातुर्यकाननवाप्यः। शेषं सुगमम् । इति सूत्रार्थः ॥१०७॥ अथ देवानां स्वरूपमाह ।
1802) विनीताः-नितम्बभारेण मन्थराः अलसाः। शेषं सुगमम् । इति सूत्रार्थः । १०८।। अथ पुनस्तासां स्वरूपमाह ।
_1803) मन्ये-अहम् एवं मन्ये । *स्वर्गवासिविलासिन्यः शृङ्गारसर्वस्वमेकीकृत्य विनिर्मिता रचिताः । इवोत्प्रेक्षते । मूर्ता मूर्तवतः श्रियः सन्ति । इति सूत्रार्थः ॥१०९॥ अथ पुनस्तदेवाह ।
स्वर्गों में इन्द्र सात प्रकारकी देवसेनाओं और विमानोंके साथ देवांगनाओंसे संयुक्त होते हुए रमण किया करते हैं ।।१०६।।
_ हाथी, घोड़ा, रथ, पादचारी, बैल, गन्धर्व और नर्तकी ये सात सेनाएँ हैं। इनमेंसे प्रत्येकमें एक महत्तर (प्रधान) होता है ॥१०६*१।।
वहाँ श्रेष्ठ श्रृंगारसे परिपूर्ण, लावण्यरूप वनकी वापिकासमान, पुष्ट स्तनोंके भारसे संयुक्त, पूर्ण चन्द्रमाके समान सुन्दर मुखवाली, नम्र, मनोहर रूपकी धारक, महती ऋद्धिकी महिमासे सहित; हाव-भाव व विलाससे व्याप्त तथा नितम्बोंके भारसे मन्द, ऐसी स्वर्गकी ।
।
१. All others except PS °न्वितैः, S नाचितैः । २. M N त्रिदशेश्वराः, J त्रिदिवेश्वराः । ३. PM N om. । ४. LSJY R नर्तकी, T नर्तकौ, FX वृषा....नर्तकाः....सन्त्यत्र । ५. LF X महत्तराः, S T महत्तरान्, JY R महत्तरं। ६. M संपूर्णलावण्य । ७. M N अन्याः for मन्ये । ८. N स्वर्गावास, L F स्वर्गवासि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org