________________
५०२
ज्ञानार्णवः
Jain Education International
1500 ) विज्ञातमपि निःशेषं यदज्ञानादपार्थकम् ।
यस्मिंश्च विदिते विश्वं ज्ञातमेव न संशयः ॥ २९ 1501 ) यत्स्वरूपापरिज्ञानान्नात्मतत्वे स्थितिर्भवेत् ।
यं' ज्ञात्वा मुनिभिः साक्षात्प्राप्तं तस्यैव वैभवम् ||३० 1502 ) स एव नियतं ध्येयः स विज्ञेयो मुमुक्षुभिः ।
अनन्यशरणीभूय तद्गतेनान्तरात्मना ॥ ३१ 1503 ) अवाग्गोचरमव्यक्तमनन्तं शब्दवर्जितम् । अजं जन्मभ्रमातीतं निर्विकल्पं विचिन्तयेत् ॥ ३२
1500) विज्ञातमपि - यस्यात्मनो अज्ञानात् निःशेषं समस्तं विज्ञातमपि अपार्थकं निरर्थकम् । यस्मिन्नात्मनि विदिते ज्ञाते विश्वं जगत् ज्ञातमेव न संशयः । इति सूत्रार्थः ||२९|| अथ पुनस्तस्यैव स्वरूपमाह ।
1501) यत्स्वरूपापरि - आत्मतत्त्वे स्थितिर्भवेत् न । कस्मात् । यत्स्वरूपापरिज्ञानात् आत्मस्वरूपापरिज्ञानात् । यमात्मानं ज्ञात्वा । मुनिभिर्योगिभिस्तस्यैव वैभवं माहात्म्यं साक्षात् प्राप्तम् । इति सूत्रार्थः ||३०|| पुनरपि आत्मनः स्वरूपमाह ।
1502) स एव – स एव नियतं निश्चितं ध्येयः आत्मा मुमुक्षुभिः मुक्तिकामैः । स विज्ञेयः ज्ञातव्यः । तद्गतेन शरीरान्तर्गतेन आत्मना अनन्यशरणीभूय । इति सूत्रार्थः ||३१|| अथ तस्यैव स्वरूपमाह ।
1503) अवाग्गोचरम् - पुनः कीदृशं परमात्मानम् । अवाग्गोचरं वचनगोचरं न । पुनः । अव्यक्तममूर्तत्वात् । अनन्तम् अनन्तविषयत्वात् । शब्दवर्जितं नामसंज्ञादिवर्जितम् । अजं जन्मरहितम् । जन्मभ्रमातीतं भवभ्रमरहितं निर्विकल्पम् एकस्वरूपं विचिन्तयेत् । इति सूत्रार्थः ॥३२॥ अथ तस्यानन्तत्वमाह । जिस परमात्मा ने बिना अन्य समस्त भी पदार्थोंका परिज्ञान व्यर्थ रहता है। तथा जिसके जान लेनेपर अन्य समस्त विश्व भी निश्चयसे जान लिया जाता है, इसके अतिरिक्त जिसके स्वरूपको न जान सकनेके कारण मुनिजनोंका आत्मस्वरूपमें अवस्थान नहीं होता है तथा जिसको जानकर वे साक्षात् उसकी ही विभूतिको प्राप्त कर लेते हैंस्वयं भी परमात्मा बन जाते हैं; उसीको एक मात्र शरण मानकर मोक्षके अभिलाषी योगी जोंको उसकी ओर झुके हुए अन्तःकरणके द्वारा - एकाग्रचित्त होकर - नियमसे उसका ही ध्यान करना चाहिए ।। २९-३१ ।।
वह परमात्मा वचनका अविषय, इन्द्रियोंके द्वारा न देखा जा सकनेवाला, अनन्त, शब्द से रहित, जन्म से अतिक्रान्त ( अजन्मा ), संसार - परिभ्रमणको नष्ट कर देनेवाला और सब प्रकारके संकल्प - विकल्पोंसे रहित है; इस प्रकार से ध्यानमें उसके स्वरूपका चिन्तन करना चाहिए ||३२||
१. All others except P Q Y यज्ज्ञात्वा ।
[ २८.२९
For Private & Personal Use Only
www.jainelibrary.org