SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ४२८ ज्ञानार्णवः 1238 ) असत्यकल्पनाजालकश्मलीकृतमानसः । चेष्टते यजनस्तद्धि मृषारौद्रं प्रकीर्तितम् || १४ || तद्यथा1239 ) विधाय वञ्चकं शास्त्रं मार्गमुद्दिश्य निर्दयम् । प्रपात्य व्यसने लोकं भोक्ष्ये ऽहं वाञ्छितं सुखं ॥ १५ 1240 ) असत्यचातुर्यबलेन लोकाद्वित्तं ग्रहीष्यामि बहुप्रकारम् । तथाश्वमातङ्गपुराकराणि कन्यादिरत्नानि च बन्धुराणि ॥१६ 1241 ) असत्यवाग्वञ्चनयां नितान्तं प्रवर्तयत्यत्र जनं वराकम् । स्वधर्ममार्गादतिवर्तनेन मदोद्धतो यः स हि रौद्रधामा ॥ १७ 1238 ) असत्य - जनो यच्चेष्टते क्रियां करोति । कीदृशः । असत्यकल्पनाजालकश्मलीकृतमानसः अनृतविकल्पसमूहमलिनीकृतचित्तः । हि निश्चितम् । तन्मृषारौद्रं रौद्रध्यानं प्रकीर्तितम् । इति सूत्रार्थः ||१४|| तद्यथा दर्शयति । [ २४.१४ 1239 ) विधाय - अहं वाञ्छितं सुखं भोक्ष्ये । किं कृत्वा । लोकं व्यसने कष्टे प्रपात्य । पुनः किं कृत्वा । वञ्चकं वञ्चनशीलं शास्त्रं विधाय कृत्वा । किमुद्दिश्य । मार्ग निर्दयं दयारहितमुद्दिश्य समुद्दिश्य । इति सूत्रार्थः || १५ || अथ लोकवञ्चनमेवाह । 1240 ) असत्य - अहं बहुप्रकारं तथाश्वमातङ्गपुराकराणि वित्तं द्रव्यं लोकाद् ग्रहीष्यामि । केन । असत्यचातुर्यबलेन अलीकवाक्चातुर्यबलेन वीर्येण । तथाश्वमातङ्गपुराकराणि हयगजनगराः प्रसिद्धाः । आकरः स्वर्णादिखानिः । च पुनः । कन्यादिरत्नानि । बन्धुराणि मनोहराणीति सूत्रार्थः ॥१६॥ अथ रौद्रास्पदमाह । 1241 ) असत्यवाग् -- अत्र जगति वराकं जनं नितान्तं निरन्तरं असत्यवाग्वञ्चनया मृषावाक्यवाचनेन प्रवर्तयति । केन । सद्धर्ममार्गादतिवर्तनेन परित्यजनेन यो मदोद्धतः मदोत्कटः । हि निश्चितम् । स रौद्रधामास्पदं भवति । इति सूत्रार्थः || १७ || अतिरौद्रचिन्तामाह । जिस मनुष्यका हृदय असत्य कल्पनाओंके समूहसे मोहको प्राप्त हुआ है वह जो कुछ भी प्रवृत्ति करता है उसे मृषारौद्रध्यान कहा जाता है || १४ || वह इस प्रकार से - जो असत्यभाषी अभिमानके वशीभूत होकर यह विचार करता है कि मैं ठगनेवाले शास्त्रको रचकर और दुष्टतापूर्ण मार्गका उपदेश देकर लोगोंको आपत्ति में डालूँगा व अभीष्ट सुखको भोगूँगा, इसके अतिरिक्त असत्यभाषणकी चतुराईके प्रभावसे मैं लोगों से बहुत प्रकारके धनको, तथा घोड़ा, हाथी, नगर, सुवर्णादिकी खानों एवं सुन्दर कन्यादिरूप रत्नोंको ग्रहण करूँगा; इस प्रकार जो असत्य वचनोंके द्वारा बेचारे साधारण जनोंको अतिशय ठगता हुआ उन्हें समीचीन मार्गसे भ्रष्ट करके कुमार्ग में प्रवृत्त कराता है वह रौद्रध्यानका स्थान ( आश्रय) होता है ॥१५-१७॥ Jain Education International १. PM तद्यथा । २. F फलं । ३. N कन्याश्च । ४. M वञ्चनता । ५. All others except PMF सद्धर्म । ६. LF धाम । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy