________________
ज्ञानार्णवः
[ २३.२२1203) अनिष्टयोगजन्माद्यं तथेष्टार्थात्ययात्परम् ।
रुक्प्रकोपात्तृतीयं स्यान्निदानात्तुर्यमङ्गिनाम् ।।२२ 1204 ) अनिष्टयोगार्तम् । तद्यथा
ज्वलनवनविषास्त्रव्यालशार्दूलदैत्यैः स्थलजलबिलसत्वैदुर्जनारातिभूपैः । स्वजनधनशरीरध्वंसिभिस्तैरनिष्टै
र्भवति यदिह योगादायमातं तदेतत् ।।२३ 1205 ) तथा चरस्थिरैर्भावैरनेकैः समुपस्थितैः ।
अनिष्टैर्यन्मनः क्लिष्टं स्यादातं तत्प्रकीर्तितम् ।।२४ ___1203 ) अनिष्टयोग-आद्यं प्रथममार्तध्यानम् अनिष्टयोगजम् अमनोज्ञसंयोगजातम् । तथेष्टार्थात्ययात् मनोज्ञार्थविनाशात् परं द्वितीयम्। रौद्रमसद्ध्यानं रुप्रकोपात् पीडाचिन्तनात् तृतीयम् । अङ्गिनां प्राणिनां निदानात्तुर्य चतुर्थं स्यादित्यर्थः ॥२२।। अनिष्टयोगजं तद्यथा।
1204 ) ज्वलनवन-तदेतद् आद्यमार्तध्यानं भवति । इह जगति । कस्मात् । तैरनिष्टैर्योगात् संबन्धात् । कीदृशस्तैः । स्वजनधनशरीरध्वंसिभिः कुटुम्बद्रव्यदेहनाशकैः । पुनः कैः । ज्वलनवनविषास्त्रव्यालशार्दूलदैत्यैः अग्निपानीयगरलास्त्रसर्पसिंहदैत्यैः । पुनः कैः । स्थलजलबिलसत्त्वैः स्थलचरजलचरबिलसत्त्वैः प्राणिभिः। पुनः कैः । दुर्जनारातिभूपैः दुष्टजनशत्रुराजभिः । इति सूत्रार्थः ॥२३॥ अथ पुनरार्तलक्षणमाह।।
____1205 ) तथा चर-तत् आर्तध्यानं प्रकीर्तितं कथितम् । कैः । अनिष्टैवैिः पदार्थैः । कीदृशैः । चरस्थिरैः त्रसस्थावरैः । पुनः कीदृशैः । समुपस्थितैः समीपस्थैः । एतादृशेरनिष्टैर्भावैर्यन्मनः क्लिष्टं स्यात् । इत्यर्थः ।।२४।। अथ पुनस्तत्स्वरूपमाह ।
प्राणियोंके अनिष्ट (विषकण्टकादि ) के संयोगसे प्रथम (अनिष्ट संयोगज) आर्तध्यान, इष्ट अर्थ-स्त्री पुत्रादि व धनसम्पत्ति आदि-के विनाशसे दूसरा (इष्ट वियोगज) आर्तध्यान, रोगके प्रकोपमें उसके परिहारार्थ तीसरा (वेदनाजनित) आर्तध्यान और आगामी भवमें भोगाकांक्षारूप निदानसे चतुर्थ ( निदान ) आर्तध्यान होता है ।।२२।।
उनमें अनिष्टके संयोगसे होनेवाले प्रथम आर्तध्यानका स्वरूप इस प्रकार है-अपने कुटुम्बीजन, धन-सम्पत्ति और शरीरको नष्ट करनेवाले अग्नि, अरण्य (अथवा जल ) विष, शस्त्र, सर्प, सिंह व दैत्य तथा स्थलके प्राणी, जलके प्राणी एवं बिलके प्राणी (सर्पादि)
और दुर्जन, शत्रु व राजा इत्यादि; इन अनिष्ट पदार्थों के सम्बन्धसे जो यहाँ संक्लेश और चिन्ता होती है उसका नाम प्रथम आर्तध्यान है ॥२३॥
इसके अतिरिक्त चर ( चलते-फिरते) और स्थिर अनेक अनिष्ट पदार्थों के उपस्थित होनेपर जो मनमें क्लेश उत्पन्न होता है उसे आतेध्यान कहा जाता है ॥२४॥ १. Y योगजं त्वाद्यं । २. M N अनिष्टयोगं, T°योगात्, L F X योगजं, others om. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org